पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ प्रथमः खण्डः अथातः स्थालीपाकम् । अथ आग्नेयस्थालीपाकानन्तरम् । अतः आग्नेयस्थालीपाकस्य पूर्ववृत्त त्वात् । आग्नेयस्थालीपाकेनामिसिद्धिरिति कृत्वा तस्य पूर्ववृत्तत्वेनातश्शब्दः । अतश्शब्दं विहाय केचित्पठन्ति । तदसत् । तस्य हेतुरूपत्वात् अत्यन्त व्यवहितत्वादथशब्दस्य प्रयोजनाभावाच अतश्शब्दः । अत्र श्रुतिः । 'सन्ौ यजेत सन्धिमभितो यजेत ' इति । सूक्ष्मत्वात्सन्धिकालय सन्धेर्विषय उच्यते । सामीप्यविषयं प्राहुः पूर्वेणाप्यपरेण च' । इति गोभिलः -‘पक्षान्तं उपवस्तव्याः पक्षादयो वा यष्टव्यः, यज्ञपार्श्वः पर; पाद पक्षादेः प्रथमाख्यः कालः पार्वणयोगस्य' । इत्यादि वद्धशातातपः-- 'पर्वणे यश्चतुर्थाश.आद्याः प्रतिपदखायः । योगकालस्स विज्ञेयः प्रातरुक्तो मनीषिभिः । आवर्तनं यदा सन्धिः पर्वप्रतिपदोर्भवेत् । तदहर्याग इष्येत परतश्रेत्परेऽहनि। अथ चतुर्थः प्रश् औसाक्षिः- तमिन्नहनेि यष्टव्यं पूर्वेद्युतदुपक्रमः । आवर्तनात्परस्सन्धियैदि तस्मिनुक्रमः । (यागः) पेरेद्युरित्येष पर्वद्वयविनिश्चयः' ॥ इति ‘पूर्वाहं वाऽथ मध्याहे यदि पर्व समाप्यते । उपोष्य तव पूर्वेद्युः तदहर्याग इष्यते ।