पृष्ठम्:श्रीवेङ्कटेश्वरसुप्रभातस्तोत्रम्.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

योषागणेन वरदध्नि विमथ्यमाने घोषालयेषु दधिमन्थनतीत्र्धोषाः। रोषात्कालिं विदधते ककुभश्र्च कुम्भाः शेषाद्रिशेखर विभो तव सुप्रभातम्॥११॥

पद्मेशमित्रशतपत्रगतालिवर्गाः हर्तुं श्रियं कुवलस्य निजाङ्गलक्ष्म्या। भेरीनिनादमिव बिभ्रति तीव्रनादं शेषाद्रिशेखर विभो तव सुप्रभातम्॥१२॥

श्रीमन्नभीष्टवरदाखिललोकबन्दो श्रीश्रीनिवास जगदेकदयैकसिन्धो। श्रीदेवतागृहमुजान्तरदिव्यमूर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम्॥१३॥

श्रीस्वामिपुष्करिणिकाऽऽप्लवनिर्मङ्गाः श्रेयोऽर्थिनो हरविरिञ्चसनन्दनाद्याः। द्वारेवसन्ति वरवेत्रहतोत्तमाङ्गः श्रीवेङ्कटाचलपते तव सुप्रभातम्॥

श्रीशेषशैलगरूडाचलवेक्कटाद्रि- नारायणाद्रिवृषभाद्रिवृषाद्रिमुख्याम्। आख्यां त्वदीयवसतेरनिशं वदन्ति श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥