पृष्ठम्:श्रीवेङ्कटेश्वरसुप्रभातस्तोत्रम्.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चाननाब्बभवषण्मुखवासवाध्याः त्त्रैविक्रमादिचरितं विबुधाः स्तुवन्ति। भाषापतिः पठति दासरशुध्दिमारात् शेषाद्रिशेखर विभो तव सुप्रभातम्॥६॥

ईषत्प्रफुल्लसरसीरुहनारिकेल- पृगद्रुमादिसुमनोहरपालिकानाम्। आवाति मन्दमनिल स्सह दिव्यगन्धैः शेषाद्रिशेखर विभो तव सुप्रभातम्॥७॥

उन्मीक्य नेत्रयुगमुत्तमपञ्जरस्थाः पात्त्रवशिष्टकदकदलीफलपायसानि। मुक्त्वा सलीलमय केलिशुकाः पठन्ति शेषाद्रिशेखर विभो तव सुप्रभातम्॥८॥

तन्त्त्रीप्रकषेमधुरस्वनया विपञ्च्या गायत्यनन्तचरितं तव नारदोऽपि। भाषासमग्रमसकृत्करचाररम्यं शेषाद्रिशेखर विभो तव सुप्रभातम् ॥९॥

भुङ्गवली च मकरन्दरसानुविध्द- शङ्कारगीतनिनदै स्सह सेवनाय। निर्यात्युपान्तसरसीकमलोदरेभ्यः शेषाद्रिशेखर विभो तव सुप्रभातम् ॥१०॥