पृष्ठम्:श्रीवेङ्कटेश्वरसुप्रभातस्तोत्रम्.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भास्वानुदेति विचानि सरोरुहाणि संपूरयन्ति निनदैःककुभो विहङ्गाः। श्रीवैष्णवा स्सत्ततमर्थितङ्गलास्ते धामाश्रायन्ति तव वेङ्कट सुप्रभातम्॥२६॥

ब्रह्मादय स्सुरवरा स्समहर्षयस्ते सन्त स्सनन्दनमुखास्त्वथ योगिवर्याः। धामन्तिके तव हि मङ्गलवस्तुहस्ताः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२७॥

लक्ष्मीनिवास् नरवद्यगुणैकसन्धो संसारसागरसमुत्तरणैकसेतो । वेदान्तवेद्यनिजवैभव भक्तभोग्य श्रीवेङ्कटाचलपते तव सुप्रभातम्॥२८॥


इत्थं वृषाचलपतेरिह सुप्रभातं ये मानवाःप्रतिदिनं पठितुं प्रवृत्ताः। तेषां प्रभातसमये स्मृतिरङ्गभाजां प्रज्ञां परार्थसुलभां परमां प्रसृते॥२९॥

॥इति श्रीनेङ्कटेश सुप्रभातम्॥