पृष्ठम्:श्रीवेङ्कटेश्वरसुप्रभातस्तोत्रम्.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीभूमिनायक दयादिगुणामृताब्धे देवाधिदेव ज्गदेकशरण्यमूर्ते। श्रीमन्नन्तगरूडादिभिरर्चिताङ्घ्रे श्रीवेक्कटाचलपते तव सुप्रभातम्॥२१॥

श्रीपद्मनाभ पुरूषोत्तम वासुदेव वैकुण्ठ माधव जनार्दन चक्रपाणे। श्रीवत्सचिन्ह शरणगतपारिजात श्रीवेङ्कटाचलपते तव सुप्रभातम॥२२॥

कन्दर्पदर्पहरसुन्दरदिव्यमूर्ते कान्ताकुचाम्बुरूहकुडमललोलदृष्टे। कल्याणनिर्मलगुणाकरदिव्यकीर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम्॥२३॥

मीनाकृते कमठ कोल नृसिंह वर्णिन् स्वामिन् परश्र्वथतपोधन रामचन्द्र। शेषांशराम यदुनन्दन कल्किरूपम् श्रीवेङ्कटाचलपते तव सुप्रभातम्॥२४॥

एलालवङ्गघनसारसुगन्धतीर्थं दिव्यं वियत्सरिति हेमघटेषु पूर्णम्। धृत्वाऽद्य वैदिकशिखामणयःप्रहृष्टाः तिष्ठन्ति वेङ्कटपते तव सुप्रभातम्॥२५॥