पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/9

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



श्रीवेङ्कटेश्वरसुप्रभातम्


त्वत्पादधूलिभरितस्फुरितोत्तमाङ्गाः
स्वर्गापवर्गनिरपेक्षनिजान्तरङ्गाः ।
कल्पागमाकलनयाऽऽकुलतां लभन्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१९॥

त्वद्गोपुराग्रशिखराणि निरीक्षमाणाः
स्वगापवर्गपदवीं परमां श्रयन्तः ।
मत्या मनुष्यभुवने मतिमाश्रयन्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२०॥

श्रीभूमिनायक दयादिगुणामृताब्धे
देवाधिदेव जगदेकशरण्यमूतें ।
श्रीमन्ननन्तगरुडादिभिरर्चिताङ्घ्रे
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२१॥

श्रीपद्मनाभ पुरुषोत्तम वासुदेव
वैकुण्ठ माधव जनार्दन चक्रपाणे ।
श्रीवत्सचिह्न शरणागतपारिजात
श्रीवेङ्कटाचलपते तव सुप्रभातमू ॥२२॥

कन्दर्पदर्पहरसुन्दरदिव्यसूतें
कान्ताकुचाम्बुरुहकुड्मललोलडष्ट ।
कल्याणनिर्मलगुणाकरदिव्यकीर्ते
श्रीवेङ्कटाच लपते तव सुप्रभातम् ॥२३॥