पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/10

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



श्रीवेङ्कटेश्वरसुप्रभातम्


मीनाकृत कमठकोलनृसिहवर्णिन्
स्वामिन परश्वथतपोधन रामचन्द्र ।
शेपांशराम यदुनन्दन कल्किरूप
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२४॥

एलालवङ्गघनसारसुगन्धतीर्थे
दिव्यं वियत्सरिति हेमघटेषु पूर्णम् ।
धृत्वाऽद्य वैदिकशिखामणयः प्रहृष्टाः
तिष्ठन्ति वेङ्कटपते तव सुप्रभातम् ॥२५॥

भास्वायुंदति विकचानि सरोरुहाणि
संपूरयन्ति निनदैः ककुभो विहङ्गाः ।
श्रीवैष्णवाम्सततमर्थितमङ्गलास्ते
धामाश्रयन्ति तव बैंङ्कट सुप्रभातम् ॥२६॥

व्रह्मादयस्सुग्वरास्समहर्षयस्ते
मन्तस्सनन्दनमुग्वास्तव योगिवर्याः ।
धाभान्तिके तव हि मङ्गलवस्तुहस्ताः
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२७॥

लक्ष्मीनिवास निरवद्यगुणैकसिन्धो
संसारसागरसमुत्तरगैंकसेतो ।
वेदान्तवेद्य निजवैभव भक्तभोग्य
श्रीवेङ्कटाचलपते तव सुप्रभातमू ॥२८॥