पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/6

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



श्रीवेङ्कटेश्वरसुप्रभातम्

तव सुप्रभातमरविन्दलोचने
भवतु प्रसन्नमुखचन्द्रमण्डले ।
विधिशङ्करेन्द्रवनिताभिरर्चिते
वृषशैलनाथदयिते दयानिधे ॥४॥

अच्यादिसप्तक्रपयस्समुपास्य सन्ध्या
आकाशसिन्धुकमलानि मनोहराणि ।
अादाय पादयुगमर्चयितुं प्रपन्नाः
शेषाद्रिशेखरविभो। तव सुप्रभातम् ॥५॥

पञ्चाननाब्जभवषण्मुखवासवाद्याः
त्रैविक्रमादिचरितं वियुधाः म्तुवन्ति ।
भाषापतिः पठति वासरशुद्विभारात
शेषाद्रिशेश्वरविभो। तव मुअभानम् ॥६॥

ईषत्प्रफुछ्सरसीरुहनारिकेल
पूगद्रुमादिसुमनोहरपालिकानाम् ।
अावाति मन्दभनिलस्सह दिव्यगन्धैः
शेषाद्रिशेखगविभो। तव सुप्रभातम् ॥७॥

उन्मील्य नेत्रयुगमुत्तमपञ्जरस्थाः
पात्रावशिष्ट्रकदलीफलपायमोनि ।
भुक्त्वा सलीलमथ केलिशुकाः पठन्ति
शेषाद्रिशेखरविभो। तब सुप्रभानम् ॥८॥