पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/5

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
श्री
श्री श्रीनिवासपरब्रह्मणे नमः
20px';
॥ श्रीवेङ्कटेशसुप्रभातम् ॥

कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥
उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ।
उत्तिषु कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥
मातस्समस्तजगतां मधुकैटभारेः
वक्षोविहारिणि मनोहरदिव्यरूपे ।
श्रीस्वामिनि श्रितजनप्रियदनशीले
श्री वेङ्कटेशदयिते तव सुप्रभातम् ॥