पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/55

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



५१
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्


मासं पठन्न्यूनकर्ममूर्ति च समवाप्नुयात् ।
मार्गभ्रष्टब्ध सन्मार्ग गतस्व: स्वं स्वकीयकम् ॥ १८१

चाञ्चल्यचित्तोऽचाञ्चल्ये मनस्स्वास्थ्यं च गच्छति ।
अायुरारोग्यमैश्वर्ये ज्ञानं मोक्षं च विन्दति ॥ १८२

सर्वान्कामानवाभोति शाश्वत च पर्द तथा ।
सत्ये सत्ये पुनस्सत्ये सत्यं सत्यं न संशयः ॥ १८३

इति श्रीब्रह्माण्डपुराणे वसिष्ठनारदसंवादे श्रीवेङ्कटाचलमाहात्म्ये
श्रीवेङ्कटेशसहस्रनामस्तोत्राध्यायः समाप्तः ।



श्रियःकान्ताय कल्याणनिघये निधयेथिनाम् ॥
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥

श्रीवेङ्कटाचलाघीशं श्रियाऽध्यासितवक्षसम् ।
श्रितचेतन मन्दारं श्रीनिवासमहं भजे ॥