पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/53

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



४९
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्


वरदोऽभयदश्चक्री शङ्खी कौस्तुभदीप्तिमान् ।
श्रीवत्साङ्कितवक्षस्को लक्ष्मीसंश्रितहृतटः ॥ १६४

नीलोत्पलनिभाकारः शोणाम्भोजसमाननः ।
कोटिमन्मथलावण्यश्चद्रिकास्मितपूरितः ॥ १६५

सुधास्वच्छोध्र्वपुण्ड्रश्ध कस्तूरीतिलकचितः ।
पुण्डरीकेक्षणः स्वच्छो मैौलिशोभाविराजितः ॥ १६६

पद्मस्थः पद्मनाभश्च सोममण्डलगो बुधः ।
वह्निमण्डलगः सूर्येः सूर्येमण्डलसंस्थितः ॥ १६७

श्रीपतिभूमिजानिब्ध विमलाद्यभिसंवृत: ।
जगत्कुटुम्बजनिता रक्षकः कामितप्रदः ॥ १६८

अवस्थात्रययन्ता च विश्वतेजम्स्वरूपवान् ।
ज्ञप्तिज्ञेयो ज्ञानगम्यो ज्ञानातीतः सुरातिगः ॥ १६९

ब्रह्माण्डान्तबैहिव्याप्तो वेङ्कटाद्रिगदाधरः ।
वेङ्कटाद्रिगदाधर ॐनम इति ।

एवं श्रीवेङ्कटेशस्य कीर्तिते परमाद्भुतम् ॥ १७०

नानां सहस्रे संश्राव्यं पवित्रे पुण्यवर्द्धनम् ।
अवणात्सर्वदोपच्ने रोगन्ने मृत्युनाशनम् ॥ १७१