पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/51

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



४७
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्


पट्कोटितीर्थचर्यावान् देवतीर्थकृतश्रम: ।
बिल्वामलजलस्नायी सरस्वत्यम्बुसेवितः ॥ १४६

तुम्बुरूदकसंस्पर्शजनचित्त नमोऽपहः ।
मत्स्यवामनकूर्मादितीर्थराजः पुराणभृत् ॥ १४७

चक्रध्येयपदाम्भोजः शङ्खपूजितपादुकः ।
रामतीर्थविहारी च बलभद्रप्रतिष्ठितः ॥ १४८

जामदग्न्यसरस्तीर्थजलसेचनतर्पितः ।
पापापहारिकीलालसुखाताघांविनाशनः ॥ १४९

नभोगङ्गाभिषिक्तश्च नागतीर्थाभिषेकवान् ।
कुमारधारातीर्थस्थो वटुवेषः सुमेखल: ॥ १५०

वृद्धस्य सुकुमारत्वप्रद: सैौन्दर्यवान् सुखी ।
प्रियवदो महाकुक्षिरिक्ष्वाकुकुलनन्दनः ॥ १५१

नीलगोक्षीरधाराभूर्वराहाचलनायक: ।
भरद्वाजप्रतिष्ठावान् बृहस्पतिविभावितः ॥ १५२

अञ्जनाकृतपूजावान् आञ्जनेयकरार्चितः ।
अञ्जनाद्रिनिवासश्च मुञ्जकेशः पुरन्दरः ॥ १५३

किन्नरद्धयसम्बन्धिबन्धमोक्षप्रदायकः ।
बैखानसमरवारम्भो वृषज्ञेयी वृवांचल: ॥ १५४