पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/50

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



४६
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्


कपिलार्चिः कपिलवान् सुख्नाताघविपाटनः ।
वृषाकपिः कपिस्वामिमनोऽन्तःस्थितविग्रहः ॥ १३७

वह्निप्रियोऽर्थसंभाव्यो जनलोकविधायकः ।
वहिपभो वहितेजा: शुभाभीष्टचदो यमी ॥ १३८

वारुणक्षेत्रनिलयो वरुणो वारणार्चितः ।
वायुस्थानकृतावासो वायुगों वायुसंभूतः ॥ १३९

यमान्तकोऽभिजननो यमलोकनिवारणः ।
यमिनामप्रगण्यश्च संयमी यमभावितः ॥ १४०

इन्द्रोद्यानसमीपस्थ इन्द्रदृग्विषयः प्रभुः ।
यक्षराट् सरसीबासो ह्यक्षय्यनिधिकोशकृत् ॥ १४१

स्वामितीर्थकृतावासः स्वामिध्येयो ह्यधोक्षजः ।
वराहाद्यष्टतीर्थाभिसेविताङ्घ्रसरोरुहः ॥ १४२

पांडुतीर्थभिषिक्ताङ्गो युधिष्ठिरवरप्रदः ।
भीमान्त:करणारूढ: श्वेतवाहनसरल्यवान् ॥ १४३

नकुलाभयदो माद्रीसहदेवाभिवन्दितः ।
कृष्णाशपथसन्धाता कुन्तीस्तुतिरतो दमी ॥ १४४

नारदादिमुनिस्तुत्यो नित्यकर्मपरायणः ।
दर्शिताव्यक्तिरूपश्ध वीणानादप्रमोदितः ॥ १४५