पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/49

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



४५
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्


अन्तरङ्गो दयावांश्च ह्यन्तमयो महार्णवः ।
सरससिद्धरसिकः सिद्धिः साध्यः सदागतिः ॥ १२८

अायुःप्रदो महायुष्मनर्चिष्मानोषधीपतिः ।
अष्टश्रीरष्टभागोऽटककुब्व्यासयशो व्रती ॥ १२९

अष्टापदः सुवर्णाभो ह्यष्टमूर्तिख्त्रमूर्तिमान् ।
अस्वझः स्वमगाः स्वमः सुस्वमफलदायक: ॥ १३०

दुःस्वमध्वंसको ध्वस्तदुर्निमित्तः शिवङ्करः ।
सुवर्णवर्णस्सम्भाव्यो वर्णितो वर्णसम्मुखः ॥ १३१

सुवर्णमुखरीतीरशिवध्यातपदाम्बुजः ।
दाक्षायणीवचस्तुष्टो दूर्वासोदृष्टिगोचरः ॥ १३२

अम्बरीषत्रतमीतो महाकृतिवेिभञ्जनः ।
महाभिचारकध्वंसी कालसर्पभयान्तकः ॥ १३३

सुदर्शनः कालमेघश्यामश्श्रीमन्त्रभावितः ।
हेमाम्बुजसर:स्नायी श्रीमनोभाविनाकृतिः ॥ १३४

श्रीप्रदत्ताम्बुजस्रग्वी श्रीकेलिः श्रीनिधिर्भवः ।
श्रीप्रदो वामनो लक्ष्मीनायकश्च चतुर्भुजः ॥ १३५

संतृप्तस्तर्पितस्तीर्थस्नातृसौख्यप्रदशैकः ।
अगस्त्यस्तुतिसंहृष्टो दर्शिताव्यक्तभावनः ॥ १३६