पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/47

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



४३
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्


अभ्भोजमकरन्दाढयो निष्पङ्कोऽगरुपङ्किलः ।
इन्द्रश्चन्द्ररथश्चन्द्रोऽतिचन्द्रश्चन्द्रभासकः ॥ ११०

उपेन्द्र इन्द्रराजश्व वागिन्द्रश्रधन्द्रलोचन: ।
प्रत्यक् पराक् परं धाम परमार्थः परात्पर: ॥ १११

अपारवाकू पारगामी पारावार: परावर: ।
सहस्वानर्थदाता। च सहन: माहसी जयी ॥ ११२

तेजस्वी वायुविशिखी तपस्वी तापसोत्तमः ।
ऐश्वर्योदूतकृहूतिरैश्वर्याङ्गकलापवान् ॥ ११३

अम्भोधिशायी भगवान् सर्वज्ञस्सामपारगा: ।
महायोगी महाधीरो महाभोगी महाप्रभु ॥ ११४

महावीरो महा 1ष्टिर्महापुष्टिर्महागुण: ।
महादेवो महाबाहुर्महाधमों महेश्वरः ॥ ११५

समीपगी दूरगामी स्वर्गमागैनिरर्गल: ।
नगो नगधरो नागो नागेशो नागपालकः ॥ ११६

हिरिणमयः स्वर्णरेता हिरण्यर्चिर्हिरण्यदः ।
गुणगण्य: शरण्यश्च पुण्यकीर्तिः पुराणगः ॥ ११७

जन्यभृज्जन्यसन्नद्धो दिव्यपश्चायुधो वशी ।
दैौर्जन्यभङ्गः पर्जन्यः सैौजन्यनिलयोऽलयः ॥ ११८