पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/37

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३
श्रीवेङ्कटेशसहस्रनामस्तोत्रमू



सत्यत्रतार्थसन्तुष्टस्सत्यरूपी झषाङ्गवान् ।
सोमकप्राणहारी चानीताम्नायोऽब्धिसञ्चरः ॥२०

देवासुरवरस्तुत्यः पतन्मन्दरधारक: ।
धन्वन्तरिः कच्छपाङ्गः: पयोनिधिवविमन्थकः ॥ २१

अमरामृतसन्धाता धृतसम्मोहिनीवपुः ।
हरमोहकमायावी रक्ष:स-दौह्रभञ्जनः ॥ २२

हिरण्याक्षविदारी च यज्ञो यज्ञविभावनः ।
यज्ञीयोवसमुद्धत लीलाकोड: प्रतापवान् ॥ २३

दण्डकासुरविध्वंसी वक्रदंष्ट्रः क्षमाधरः ।
गन्धर्वशापहरण: पुण्यगन्धो विचक्षणः ॥ २४

करालवक्त्रः सोमार्कनेत्रः षड्गुणवैभवः ।
श्वेतघोणी घूर्णितभूधुरध्वनिविभ्रमः॥ २५

द्राधीयान् नीलकेशी च जाग्रदम्बुजलोचनः ।
घृणावान् घृणिसम्मोहो महाकालामिदीधितिः ॥ २६

ज्वालाकरालवदनो महोल्काकुलवीक्षणः ।
सटानिर्भिण्णमेघैौघो दंष्ट्रारुम्व्याप्सदिक्तटः ॥ २७

उच्छ्रासाकृष्टभूतेशो निःश्वासत्यक्तविश्वसृट् ।
अन्तभ्रेमजगद्भभोisनन्तो ब्रह्मकपालहृत् ॥ २८