पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/36

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



३२
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्



वेङ्कटेशो विरूपाक्षेो विश्वेधशो विश्वभावनः ।
विश्वसृङ् विश्वसंहर्ता विश्वप्राणो विराडुपुः ॥११

शेषाद्रिनिलयोऽशेषभक्तदुःखप्रणाशनः ।
शेषस्तुत्यः शेषशायी विशेषज्ञो विभुः स्वभूः ॥ १२

विष्णुर्जिष्णुश्च वर्धिष्णुरुत्सविष्णुः सहिष्णुकः ।
भ्राजिष्णुश्च प्रसिष्णुश्च वर्तिष्णुश्च भरिष्णुकः ॥ १३

कालयन्ता कालगोप्ता कालः कालान्तकोऽखिलः ।
कालगम्यः कालकण्ठवन्द्यः कालकलेश्वरः ॥ १४

शम्भुः स्वयम्भूरम्भोजनाभिस्तम्भितवारिधिः ।
अम्भोधिनन्दिनीजानिः शोणाम्भोजपदप्रभः ॥ १५

कम्बुग्रीवः शम्बरारिरूपः शम्बरजेक्षणः ।
बिम्बाधरो बिम्बरूपी प्रतिबिम्बक्रियातिमाः ॥ १६

गुणवान् गुणगम्यश्च गुणातीतो गुणप्रियः ।
दुर्गुणध्वंसकृत्सर्वसुगुणो गुणभासकः ॥ १७

परेशः परमात्मा च परञ्जयोतिः परा गतिः ।
परं पदं वियद्वासाः पारम्पर्यशुभप्रदः ॥ १८

ब्रह्माण्डगर्भो ब्रह्मण्यो ब्रह्मसृङ्ब्रह्मबोधितः ।
ब्रह्मस्तुत्यो ब्रह्मवादी ब्रह्मचर्येपरायणः ॥ १९