पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/38

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४
श्रीवेङ्कटेशसहरुनामस्तोत्रम्


उग्रो वीरो महाविष्णुज्र्वलनः सर्वतोमुखः ।
नृसिंहो भीषणो भद्रो मृत्युमृत्युः सनातनः ॥ २९

सभास्तम्भोद्भवो भीमः शीरोमाली महेश्वरः ।
द्वादशादित्यचूडाल: कल्पधूमसटाच्छविः ॥ ३०

हिरण्यकोरस्थलभिन्ननखः सिंहमुखोऽनघः ।
प्रह्लादवरदो धीमान् भक्तसङ्घप्रतिष्ठितः ॥ ३१

ब्रह्मरुद्रादिसंसेव्यः सिद्धसाध्यप्रपूजितः ।
लक्ष्मीनुर्सिहो देवेशो ज्वालाजिह्वान्त्रमालिकः ॥ ३२

खड्गी खेटी महेष्वासी कपाली मुसली हली ।
पाशी शूली महाबाहुज्र्वरघ्नो रोगळुण्ठकः ॥ ३३

मौञ्जीयुकू छात्रको दण्डी कृष्णाजिनधरो वटुः ।
अधीतवेदो वेदान्तोद्धारको ब्रह्मनैष्ठिकः ॥ ३४

अहीनशयनप्रीतः अादितेयोऽनघो हरिः ।
संविप्रियस्सामवेद्यो बलिवेश्मप्रतिष्ठितः ॥ ३५

बलिक्षालितपादाब्जो विन्ध्यावलिविमानितः ।
त्रिपादभूमिस्वीकर्ता विश्वरूपप्रदर्शकः ॥ ३६

घृतत्रिविक्रमः साङ्घ्रिनखभिन्नाण्डखर्परः ।
पज्जातवाहिनीधारापवित्रितजगत्त्रयः ॥ ३७