पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७३
श्रीभविष्योत्तरपुराणान्तर्गतरहस्याऽध्यायः


स्वामिपुष्करिणीसने वेङ्कटेश्वरदर्शनम् ।
महाप्रसादस्वीकरः त्रयं त्रैलोक्यदुर्लभम् ॥ १५४

सर्वत्र कीर्तयेत्प्राज्ञः स्वामिपुष्करिणीं पराम् ।
सुवर्णमुखरीं दिव्यां वेङ्कटेश्वरमव्ययम् ॥ १५५

अज्ञानान्धतम:सूर्यं पापिनान्तु न रोचते ।
एतत्सूक्ष्मतरं पुण्यं योगिनामपि दुर्लभम् ॥ १५६

स्वामिपुष्करिणीं गां सुवर्णमुखी पराम् ।
वेङ्कटेशं हरिं सेतुं सर्वतीर्थेषु संस्मरन् ॥ १५७

महापातकसबैभ्यो मुक्तः प्रज्ञानवान् भवेत् ।
एतत् स्थूलं महापुण्यं पपिनान्तु न रोचते ॥ १५८

स्वामिपुष्करिणीतीर्थ दिव्यौषधरसायनम् ।
वैद्यः श्रीवेङ्कटेशोऽये मृत्युरोगनिकृन्तनः ॥ १५९

यावकटनायकस्य शिखरप्राप्तिर्न वै योगिनां
तावज्जन्मजरादिदुःखनिलयः संसारकोपहलः ।
ब्रझाण्डान्तपरिभ्रमकृतमहापुण्यौघचन्द्रोदये
सस्सन्नामृतसेवनाद्धरिमये प्रीतिर्भवेङ्कटे ॥ १६०

यावन्नस्ति समस्तलोकमणः श्रीवेङ्कटेशाभिधः
स्वानन्दानुभवस्थिरोऽमलधियां योगीश्वराणां नृणाम्।
नानायोनिषु गर्भवासमसुखे विण्मूत्रशोकाकुलं
सम्प्राप्याऽशु विनाशदुःखम्रकांस्ताद्भवाब्धौ स्थितिः॥१६१

आख्याने देवतागोप्ये ब्रह्मगोप्य समासतः ।
इदमेव ममानन्द ध्यान हृदयगोचरम् ॥ १६२

अस्य श्रीवेङ्कटेशस्य सीमायां यात्रिके जने ।
वायनःकायवर्गेण ये कुर्वन्ति नराधमाः ॥ १६३