पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७२
श्रीवेङ्कटाचलमाहात्म्यम्


सर्वान्नलक्षणानन्दं दर्शयन्तं पदाम्बुजम् ।
सत्यं विशुद्धविज्ञानं घनप्रज्ञमदं हरिम् ॥ १४५

कर्म्यविग्रहं देवं सर्वजीवदयापरम् ।
उपास्महे वयं नित्यं हृदयेऽष्टदाम्बुजे ॥ १४६

अष्टाक्षरपदानन्दं रमेशं कर्णिकोपरि ।
एवं ध्येयं पुरस्कृत्य पधाद्धयानमिदं वदेत् ॥ १४७

यन्नामश्रतिसरसान्द्रजलधिस्थाने लसकौस्तुभं
स्वाज्ञानान्धतमिस्रदुःखहरणं मदुत्रसीवनम् ।
विधाभीष्टवरप्रदानफलदं भोगीन्द्रसङ्कषणं
सर्वैश्वर्यनिदानमामक्रदं श्रीवेङ्कटेशं भजे ॥ १४८

सन्तोषो मम वेङ्कटेशनिकटे श्रीस्वर्णमुख्यास्तटे
स्वावासो भवतीति दिव्यसरितः स्वर्गापवर्गप्रदे ।
कैलासे विधिकुम्भसम्भवनुते श्रीकालहस्तिस्थले
कैवल्ये वसतामनन्तमहिमा योगीधरो दुर्दभ: ॥ १४९

तारं नतिं समुद्धृत्य श्रीपूर्वं मन्त्रमुचरेत् ।।
नवाक्षरमिदं देवि सर्वगोप्यं हृदि स्थितम् ।
त्वयि नेहाममाख्यातं परानन्दपदप्रदम् ॥ १५०

नमः श्रीवेङ्कटेशाय शुद्धज्ञानस्वरूपिणे।
वासुदेवाय शन्ताय श्रीनिवासाय मङ्गलम् ॥ १५१

मत्रध्यानमिदं कृत्वा पधामत्रमिदं वदेत् ।
नमः श्रीवेटेशाय नमोऽतं वा समुच्चरेत् ॥ १५२

अष्टाक्षरमिदं स्यातं भुक्तिमुक्तिफलप्रदम् ।
रहस्यं सर्वमन्त्राणां गोपनीयं प्रयततः ॥ १५३