पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
श्रीवेङ्कटाचलमाहात्म्यम्

अथ अष्टमोऽध्यायः


***



श्रीवराहस्य स्वामितीर्थवायव्यभागस्थितिवर्णनम्



दिलीपः---
 'स्थितानि स्वामिसरसि तीर्थानि मुनिपुङ्गव ! ।
 कति तानि च पुण्यानि नामधेयानि कानि च ॥ १

 का देवता ? किं फलञ्च ? वद विस्तरतो मुने !' ।

दुर्वासः---
 तीर्थानामुत्तमं तीर्थं स्वामिपुष्करिणी शुभम् ॥ २

 स्मर्तव्या सर्वतीर्थेषु गङ्गे बाधापहारिणी ।
 तस्य वायव्यभागे तु वाराहं तीर्थमुत्तम् ॥ ३

 यदाहृतं काश्यपेन भूतलं ब्रह्मणा तदा ।
 संस्तुतो भगवान्विष्णुः भूम्युद्धरणमिच्छता ॥ ४

 तन्नासापुटसम्भूतः किटिः पोत्री महाबलः ।
 गत्वा रसातलं हत्वा हिरण्याक्षं महाबलम् ॥ ५

 उज्जहार क्षितिं दंष्ट्राकोट्या च पुरुषोत्तमः ।
 तद्रूपं लोकरक्षार्थं स्थापितं वेङ्कटाचले ॥ ६

 स्वामिपुष्करिणीतीरे ब्रह्मणा परमेष्ठिना ।
 जलाधिवासनं तस्य वायव्येऽस्यां चकार सः ॥ ७

ब्रह्मप्रार्थनया श्रीनिवासाभ्युपगतप्राथमिकवराहसेवाक्रमः



 ममज्जाथ प्रतिष्ठान्ते देवर्षिपितृभिः सह ।
 उवाच वचनञ्चेदं सर्वलोकस्य पश्यतः ॥ ८

 वराहतीर्थनाम्ना च भागोऽयं प्रथितो भवेत् ।
 योऽन्नायाति हरिं सोऽत्र नाऽस्त्रात्वैवाशुचिर्नमेत् ॥ ९