पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९
श्रीब्रह्मपुराणे सप्तमोऽध्यायः

 येद्धुकामो जगामाथ पुनस्तैश्च पराजितः ।
 ततः खिन्नमना भूत्वा तमेव शरणं ययौ ॥ ६०

 बिलद्वारेण देवेशं गत्वा पादौ प्रगृह्य च ।
 रुरोद 'त्राहि त्राही" ति तं प्राहार्चास्वरूपवान् ॥ ६१

 "मा भैषीः पुत्र ! भद्रं ते चक्रसङ्खौ ददामि ते ।
 ताभ्यां गच्छ पुरीं दिव्यां तौ ते शत्रून् हनिष्यतः ॥ ६२

 इत्युक्त्वा तौ ददौ तस्मै ताभ्यांसह जगाम सः ।
 तौ च शत्रून्निहत्याशु कृत्वा राज्यमकण्टकम् ॥ ६३

 आजग्मतुः क्षितिभृिता साकं देवस्य सन्निधौ ।
 राजा देवं ववन्देऽथ स्तुत्वा स्तोत्रैरनेकशः ॥ ६४

बिम्बादौ शङ्खचक्राभावे कारणवर्णनम्


 "वरं वरय भद्रे"ति देवो राजानमब्रवीत् ।

राजा---
 'मयाऽऽयुधप्रदानस्य ख्यात्यै देवोत्तम प्रभो ! ॥ ६५

 अर्चाबिम्बे शिलाबिम्बे चक्रश्ङ्खौ न धारय' ।
 इति सम्प्रार्थितो देवो न दधार पुनश्च तौ ॥ ६६

 अदृश्यौ तिष्ठत्तश्चोभौ पार्श्वतः शार्ङ्गधन्वनः ।
 इत्येतत्कथितं सर्वं यत्पृष्टोहं त्वयाऽनघ ।
 सकारणं चक्रदानं किमन्यच्छ्रोतुमिच्छसि' ॥ ६७

इति श्रीब्रह्मपुराणे श्रीवेङ्कटाचलमाहात्म्ये तोण्डमान्नामक-


नृपोत्पति भगवद्दत्तशङ्खचक्रधारणप्राप्त्यादि-


वर्णनं नाम सप्तमोऽध्यायः ।