पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१
श्रीब्रह्मपुराणे अष्टमोऽध्यायः

 वराहदर्शनापूर्वं श्रीनिवासं नमेन्न च ।
 दर्शनात्प्राग्वराहस्य श्रीनिवासो न तृप्यति' ॥ १०

 इति कृत्वा व्यवस्थां स परमेष्ठी पितामहः ।
 दृष्ट्वाऽथ श्रीनिवासञ्च स्तुत्वा च विविधैः स्तवैः ॥ ११

 पादौ प्रगृह्य देवस्य ययाचे वरमुत्तमम् ।
 मत्स्थापितवराहस्य पूर्वं स्यात्पूजनं हरे ! ॥ १२

 'तथाऽस्त्वि'ति वरं दत्त्वा कारयामास तत्तथा ।
 तस्मात्पुण्यतमं तीर्थं वायव्यां दिशि संस्थितम् ॥ १३

निषादकृतवराहदर्शनप्रकारः



 पुनर्युगान्तसमये नष्टे देवालयेऽपि च ।
 निषादोऽभूद्गिरिवरे श्यामाकाऽऽवापकः शुचिः ॥ १४

 आर्द्रीभूतः स श्यामाकतण्डुलं प्रत्यहं नृप ।
 वैखानसे द्विजवरे दत्त्वा पाकं विधाय च ॥ १५

 दापयित्वा व नैवेद्यं स्वयं भुङ्क्ति तदेव च ।
 कदाचित्तण्डुलं कृत्वा दत्त्वा पुत्रवशे त्वगात् ।
 वनाद्वनान्तरं व्याधो मध्वन्वेषणतत्परः ॥ १६

 तस्मिन्नेवान्तरे पुत्रः क्षुधया परिपीडितः।
 कृत्वा श्यामाकपक्वान्नं मनसा विष्णवेऽर्पयत् ॥ १७

 भभुङक्ताथ पिताऽप्यागात् मधुच्छन्नं प्रगृह्य च ।
 'श्रीनिवासस्य नैवेद्यं तण्डुलं देहि पुत्रक !' ॥ १८

 पित्रेत्युक्तः सुतः प्राह 'ताताहं क्षुधयाऽर्दितः।
 तान् पक्ता भुक्तवानस्मि विष्णवे मनसाऽर्पयन्' ॥ १९