पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५
श्रीब्रह्मपुराणे सप्तमोऽध्यायः

 भविष्यकृष्णावतारस्य कथां श्रुत्वाऽतिकौतुकात् ।
 तदानीमेव तद्रूपदर्शनाह्लादकामतः ॥ १४

 नित्यत्वात्स्वीयरूपाणां तथा प्रत्यक्षतां गतः ।
 वैखानसो द्विजस्तत्र तपसा तमतोषयत् ॥ १५

 मुक्त्यर्थं प्रीतिमान् विष्णौ तस्य स्वप्ने हरिः स्वयम् ।
 "त्वया ध्येयः श्रीनिवासो नाहं ध्येयो द्विजोतम ! ॥ १६

 यो योग्यो यस्य जीवस्य तेन ध्येय स एव हि ।
 योग्योपासनया जीवा मुक्तिं यान्ति न संशयः ॥ १७

 अभिधा श्रीनिवासस्य तव योग्या द्विजोत्तम ।
 वेङ्कटाद्रिं ततो गच्छ श्रीनिवासः स्वयं हरिः ॥ १८

 स्वामिपुष्करिणीतीरे रमया सह मोदते" ।
 इत्याह भगवान् कृष्णः पुनः स्वप्नान्तरेऽवदत् । १९

 "पुरा कृतयुगे पश्चात् भागे शङ्खेन वै कृतम् ।
 विमानं कल्पप्रलये नष्टप्रायमभूद्विज ! ॥ २०

 वल्मीकस्यान्तरे विष्णोः प्रतिमा वर्तते शुभा ।
 शङ्खेन निर्मिता पुण्या सर्वपापहराऽमला ॥ २१

 जानुमात्रे निमग्ना हि तिन्त्रिणीवृक्षमूलतः ।
 धनुर्द्वयान्तरे पुण्यं भूतीर्थं वर्तते शुभम् ॥ २२

 पाकार्थं देवदेवस्य भूम्या वै निर्मितं पुरा ।
 तत्राऽस्ते गौतमी धेनुः सिञ्चन्ती पयसा विभुम् ॥ २३

 चिञ्चावृक्षस्य वायव्ये भूतीर्थे वासमीयुषि ।
 युगान्तप्रलये धेन्वा पूजितो वर्तते विभुः ॥ २४

 दासनाम्ना च शूद्रेणसह ते पूजय प्रभुम् ।
 त्वदागमनकाले तु पाण्ड्यदेशात्सुधीः शुभः ॥ २५