पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
श्रीवेङ्कटाचलमाहात्म्यम्

 "रङ्गदास' इति ख्यातः शूद्रस्त्वां सङ्गमिष्यते ।
 उभाभ्या पूजितो देवः इष्टसिद्धिं प्रयच्छति" ॥ २६

 एतावदुक्त्वा स्वप्ने तु "गोपीनाथे"ति नाम च ।
 ददौ तस्य प्रियं विष्णुः सोऽतिबुद्ध्याऽतिविस्मितः ॥ २७

 प्रीत्या जगाम शैलेन्द्रं वेङ्कटाख्यं स्वसिद्धये ।
 गिरिप्रवेशकाले तु रङ्गदासः समागमत् ॥ २८

 पुष्पोद्यानकरः शूद्रः पूजकश्च द्विजोत्तमः ।
 तिन्त्रिणीवृक्षमूलस्थो क्ल्मीकस्थं हरिं वरम् ॥ २९

 उद्धृत्य पश्चिमे भागे स्थापयामासतुश्च तौ ।
 सुशिल्पिकौशलाभिश्च शिलाभिर्भित्तिमञ्जसा ॥ ३०

 कृत्वा तदन्तरे रम्यं तृणैः कृत्वा च मण्डपम् ।
 तन्मध्ये देवदेवस्य परिचर्याञ्च चक्रतुः ॥ ३१

 भूस्वामिपुष्करिण्योश्च मध्ये क्रीडास्पदं हरेः ।
 पुष्पोद्यानञ्चकारासौ शूद्रो भागवतोत्तमः ॥ ३२

 उपाहृत्य च पुष्पाणि त्रिकालेऽपि च दामकृत् ।
 पूजाकाले विप्रहस्ते प्रत्यहञ्च समर्पयत् ॥ ३३

 पश्यन्तौ तावुभौ पुण्यौ प्रत्यहञ्च दिवौकसाम् ।
 पूजाभिकाङ्क्षिणां सङ्घं विस्मयञ्जग्मतुः परम् ॥ ३४

 वन्यैः फलैश्च पुष्पैश्च कन्दमूलादिभिश्च तौ ।
 सपर्याञ्चक्रतुः सम्यग् भक्त्युद्रिक्तसुखान्वितौ ॥ ३५

 ततः कालान्तरे कश्चित् गन्धर्वो नाम कुण्डलः ।
 दिव्यं विमानमारुह्य सस्त्रीको गिरिगह्वरे ॥ ३६

 स्वामिपुष्करिणीतीरे देवं दृष्ट्वाऽभिपूज्य च ।
 तत उत्तरदेशे तु मनोरम्ये वनान्तरे ॥ ३७