पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
श्रीवेङ्कटाचलमाहात्म्यम्

 कटिं स्पृशन् वामकरात् वरमुद्राञ्च दक्षिणात् ।
 तिरोहितरमाभूभ्यां दृश्यते मृगयुर्यथा ॥ ३

 नीलजीमूतसङ्काशः पीतकौशेयशोभितः ।
 पीनवृत्तबृहद्बाहुः सुनासश्चाारुलोचनः ॥ ४

 दोषगन्धविदूरश्च गुणसान्द्रः सुखोचितः ।
 कोटिकन्दर्पलावण्यः स्फुरन्मकरकुण्डलः ॥ ५

 बृहद्वक्षःस्थलावासो महालक्ष्म्या च शोभितः ।
 तत्तदिष्टतमं कामं ददद्भक्तानुकम्पया ॥ ६

 दर्शयन् भक्तवात्सल्यं यो ददैौ हस्तगे शुभे ।
 शङ्खचक्रे नृपेन्द्राय "चक्रवर्ती"ति ये विदुः ॥ ७

 अत एवारिश्ङ्खाभ्यां दृश्यते रहितौ करौ ।
 अचोरूपशिलारूपविग्रहस्य महात्मनः ॥ ८

दिलीपः---
 'कोऽयं नृपश्चक्रवर्ती किंपूर्वः सुचिरादभूत् ।
 इदानीं वर्तते क्वायं का वाऽभूद्विपदस्य वै ? ॥ ९

 यदर्थं देवदेवेन शङ्खचक्रे प्रसारिते ।
 ब्रूहि विस्तरतो ब्रह्मन् ! श्रोतुं कौतूहलं हि मे' ॥ १०

दुर्वासाः---
 पुरा कश्चिद्विजवरः आसीद्वैखानसो नृप ! ।
 कृष्णक्षेत्रे चोलदेशे या हरिद्रा नदी शुभा ॥ ११

 तत्तीरे वर्तते प्रीत्या हरिर्गोपालवेषवान् ।
 तप्ते तपसि चोलेन 'धृतवर्मा' निधेन च ॥ १२

 गोपालकृष्णरूपस्य दर्शनार्थं कलौ युगे ।
 पञ्चविंशे तु यो भूमौ पुरा वैवस्वतेऽन्तरे ॥ १३