पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५२
श्रीवेङ्कटाचलमाहात्म्यम्


तयोर्वाक्यं समाकर्थ दातुं ते सोऽवमन्यत ।
३मां दास्यामहे पुत्र वेङ्कटाद्रिनिवासिने ॥ २२२

इर्थ सङ्कल्पयामास सभामध्ये मुदा नृपः ।
त्वयैव जातमेतद्धि न दैवै भवतः परम् ॥ २२३

इति मातृवचः श्रुत्र किञ्चिद्धास्यमुखो हरिः ।।
मातरं प्रतिनन्द्याथ चिन्तयन् वाक्यमब्रवीत् ॥ २२४

इति तं श्रीभविष्योत्तरपुराणे श्रीवेङ्कटाचलमाहात्म्ये


पझावतीपरिणयनिश्चयो नाम


नयमोऽध्यायः ।


***



अथ दशमोऽध्यायः



श्रीनिंघमझ्या ब्रह्माद्यानयनार्थं शेषगरुडगमनम्

जनकः

‘मतुर्वचनमाकर्यं कृतवान् किं रमापतिः? ।
तन्ममाचक्ष्व भगवन्! सचि-तारं सतां प्रिय ! ॥ १

शतानन्द- त्वं हेरेरसि भक्तेषु प्रथमोऽतिप्रिय: मंदा। ।
तस्माद्धरिकथासक्तमनास्ते तु वदामि तत् ॥ २

स्त्रयभानन्नपूर्णाऽपि कर्मभुङ्नरवद्धरिः ।
मात्र चोदितम कथं तमूचे मधुरं वचः । ॥ ३

श्रीनिवासः-' महोत्सवं विधष्ठं हि मम बुद्धिर्न जायते ।
अबन्धोर्वधुयुक्तस्य सम्बन्धो न प्रशस्यते ॥ ४

ययोरेव समं वित्तं ययोरेव समं कुलम् ।
तयोर्विवाहो मैत्रं च नतमाधमयो; केचित् ॥ ५