पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२९०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


२७४
श्रीवेङ्कटाचलमाहात्म्यम्


दृष्ट खिन्नमना भूत्वा चिंतयन् ब्रह्मनिर्मितिम् ।
स भार्या प्रयुधाचेदं गच्छ प्राणप्रिये ! गृहम् ।
इच्छ मे पूर्णतां प्राप्त। वद्भक्ताय परितुष्यतः ॥ १४८

युक्तमुक्तं वय भद्र! गच्छमि भवनं स्वकम्।
भर्तुराज्ञामुपानीय चैन्द्रलेख। गृहं गता । १४९

यावद्गच्छति सा भार्या तावत्तत्र स्थितोऽभवत् ।
गतयां स्वप्रियायास्तु तां बालां परिचिन्तयन् ॥ १५०

शनैर्जगाम राजेन्द्र! स्मरेण हृतचेतनः ।
समीपस्थं मुनिं प्रेक्ष्य सा राजन् ! पृथुलोचना ।
स्वरभेदं प्रकुर्वती वाक्यमूचेऽथ मधघम् ॥ १५१

कुन्तल म याहि मुनिशार्दूल! मत्समीपं महामते!।
स च तद्वचनं श्रुव। सद्दसवाक्यमब्रवीत् ॥ १५२

माधवः- का स्वं कर्याणि! भद्रं ते जननी जनित च क:?।
आवासस्तव भद्रं ते करिसन् राष्ट्रे वरानने! । ।
स चेत्थमुक्ता मुनिन । जातिमाह मनस्विनी ॥ १५३

कुन्तला--

 किं मां पृच्छसि पापिष्ठां व्यभिच(कुलोद्भवम् ।
अन्यजायजयोर्जातां सुरामांसशन खलम् ॥ १५४

मध्यदेशे निवसो मे किं त्वं पृच्छसि भूयुर!।
वेदवेदान्तवेदिंस्वं न मां द्रष्टुमिहार्हसि ॥ १५५

मां स्पष्टं क्रीडितं वापि कथमिच्छसि भूटधीः ।।
एवमादिप्रजपन्तीं माधवस्तामथाब्रवीत् ॥ १५६