पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्रीवेङ्कटाचलमाहात्म्यम्

 दृष्टे मुनौ मया चोक्तं 'ऋषे ! कस्मादिहागतः' ।
 सोऽपि मां प्राह विप्रेन्द्रो 'दृष्ट्वा भूगोलमागतः ॥ ९
 
 इत्युक्तस्तेन चावोचं मम रन्तुं भुवः स्थले ।
 योग्यं किं स्थानम् ?' इत्युक्तः स चोवाच मुनीश्वरः ॥ १०

नारद:-
 'अस्ति कश्चिद्गिरिवरो वेङ्कटाख्यो मनोहरः।
 त्रिंशद्योजनमायामी योजनत्रयविस्तृतः ॥ ११

 अष्टोत्तरसहस्रेण तीर्थानां परिशोभितः ।
 जाम्बूनदनदीतीरे मेरुशैलस्य दक्षिणे ॥ १२

 किञ्चिदूनश्च वैकुण्ठात् विहारोऽयं मनोहरः।
 विहरस्व रमानाथ ! वासयोग्यस्तवैव सः' ॥ १३

 तदा तद्वचनं श्रुत्वा गन्तुमिच्छा बभूव मे ।
 एतस्मिन्नन्तरे वायोः तव संवादहेतुना ॥ १४

 गिरिरत्रागतः पुण्यः त्वयाऽपि तपसाऽर्थितः ।
 इष्टं मे प्रार्थितं पूर्वं तथाऽस्तु" इति वरं ददौ ॥ १५

 तेन विष्णुः सभायायतो हित्व बैकुण्ठमुत्तमम् ।
 स्वामिपुष्करिणीतीरे रमया सह मोदते ॥ १६

भगवतः स्वामितीर्थतीरैकवासनिमित्तम्



दिलीपः---
 'तमिन्नगोत्तमे पुण्ये नानापादपण्डिते ।
 आदावन्ते च मध्ये च सन्ति तीर्थान्यनेकशः ॥ १७

 देशा मनोहराः पुण्याः सानूनि विविधानि च ।
 हित्वा तत्सकलं स्थानं स्वामिपुष्करिणीतटम् ।
 आश्रितो रमाय तत्र मम तत्कारणं वद' ॥ १८