पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्रीब्रह्मपुराणे द्वितीयोऽध्यायः

दुर्वासा:---
 'पुरा सरस्वती देवी तीर्थोत्कृष्टत्वकाङ्क्षया ।
 सरस्वती नदी नाम ब्रह्मावर्ते बभूव ह ॥ १९

 तस्यास्तीरे तपस्तप्तुं पुलस्त्यो भगवान् ययौ ।
 पुत्रभावेन तं देवी नार्चयन्ती स्थिता मुनिम् ॥ २०

 ततस्तां कुपितः प्राह 'या ते काङ्क्षय सरस्वति ! ।
 तव सा विफला भूयात् नदीरूपेण सर्वदा ॥ २१

 गुणसामान्यभावेऽपि विष्णुपादप्रभावतः ।
 तवाधिकेन यशसा भविष्यति सरिद्वरा ॥ २२

 तीर्थोत्कृष्टा सैव भूयात् भुवि गङ्गाख्यया शुभा' ।
 इति शप्ता पुनर्देवी ते शशाप महामुनिम् ॥ २३

 'राक्षसस्ते भवेद्वंशो विष्णोरप्रियकारकः' ।
 पुनः प्रसादिता तेन विशापमपि सा ददौ ॥ २४

 'अन्तिमो वैष्णवो भूयात् कल्पस्थायी विभीषणः' ।
 पुनश्च तपसा देवी तीर्थोत्कृष्टत्वकङ्क्षया ।
 तोषयामास देवेशं तस्य सान्निध्यमावहत् ॥ २५

 'वाञ्छाा मे विफला ब्रह्मन् ! ब्रह्मदण्डेन भूयसा ।
 भूमावेव यथा तीर्थस्वामित्वं मे भवेद्ध्रुवम् ॥ २६

 वरयामि वरं देव ! देहि मे पुरुभोत्तम !' ।
 तयैवं प्रार्थितो देवो देवीं तां प्रत्युवाच ह ॥ २७

 'ब्रह्मदण्डो नदीरूपे पुष्करिण्यां न वै कृतः ।
 अतः शेषगिरिं गच्छ वासार्थं यामि तं गिरिम् ॥ २८

 गिरेर्दक्षिणभागे तु मूर्धदेशे सुखं क्स ।
 स्वामिपुष्करिणीनाम्ना वसेयं तव दक्षिणे ॥ २९