पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ द्वितीयोऽध्यायः।


--:*:--


वेङ्कटाद्रौ शेषकृततपःप्रकारः


दिलीपः----
 'किमर्थं देवदेवेशो हित्वा वैकुण्ठमुत्तमम् ।
 सान्निध्यमकरोत्तत्र वेङ्कटाख्ये नगोत्तमे ? ॥ १

 किं तत्र कारणं ब्रूहि श्रोतुं कौतूहूलं हि मे' ।
दुर्वासः---
 शेषो गतमदः पश्चात् तस्मिन्नेव नगोत्तमे॥ २

 वायव्ये स्वामिसरसो नागतीर्थे मनोरमे ।
 नानासनुसमाकीर्णे नानापादपमण्डिते ॥ ३

 उत्तरे शिखरे पुण्ये सान्निध्यार्थं जगत्पतेः ।
 तपस्तेपे महाघोरं दिव्यं वर्षसहस्रकम् ॥ ४

शेषतपस्तुष्टभगवदाविर्भावः


 तपसा तोषितो देवः प्रत्यक्षः समजायत ।
 'वरं वरय भद्रे'ति तेनोक्तः शेष आह तम् ॥ ५

शेषः---
 ‘यदि प्रसन्नो भगवान् इदं मे देहि भो वरम् ।
 यथा शेषे मदङ्गे त्वं वैकुण्ठे भुवनोत्तमे ॥ ६

 शैलाकारे च मद्देहे नित्यमत्र वस प्रभो !' ।
 इति शेषेण सम्प्रोक्तः भगवान् प्रत्युवाच ह ॥ ७

शेषप्रार्थनया भगवत्कृतवेङ्कटाद्रिवासाभ्युपगमः


 "पुरा विचारितं स्थानं भूमौ क्रीडास्पदं शुभम् ।
 एतस्मिन्नन्तरे प्रायात् नारदो मुनिसत्तमः ॥ ८