पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१४०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१२४
श्रीवेङ्कटाचलमाहात्म्यम्



समर्थोऽपि द्विजश्रेष्ठः श्राद्धे क्याप त्यजेत् ।
अलभ्ये तु द्विजे पात्रे तनुमात्रोपजीविनम् ॥ ४२

पुत्रवन्तं सदाऽचरं श्राद्धार्थस्तु निमन्त्रयेत् ।
तदभावे द्विजश्रेष्ठ पुत्रं वाऽनुजमेव वा ॥ ४३

आमानं वा नियुञ्जीत श्राद्धे वध्यार्षा त्यजेत् ।
पुष्यशील! महाभाग! चोद्धृत्य भुजमुच्यते ॥ ४४


सर्वथा पुत्रहीनन्तु श्रद्धाथे न नियोजयेत् ।
वन्ध्यापतिं द्विजो यस्तु श्राद्धकर्ता नियोक्ष्यति ।
तच्छाढमासुरं ज्ञेय कतो च नरक व्रजेत् ॥ ५५

आकाशगङ्गास्नानेन पुण्यशीलस्य तद्विकृतिनिवृत्तिः

बहुनाऽत्र किमुक्तेन तदोषविनिवृत्तये ।
उपायं ते प्रवक्ष्यामि स्वर्णमुख्यास्तटे शुभे ॥ ४६

वतंते देवसखैश्च सेविनो वेङ्कटाचलः ।
मेरुपुत्रो महापुथः सर्वकामफलप्रदः ॥ ४७

तस्मिन् वेङ्कटशैलेन्द्रं सुरासुरनमस्कृते ।
त्रियदूनेति नाम्नवै तीर्थमस्ति महत्तरम् ॥ ४८

सर्वपापप्रशमनं आयुरारोग्यवर्धनम् ।
स्वं गत्वा वेङ्कटं शैल स्वामिपुष्करिणीजले ॥ ५९

स्नात्वा सङ्कल्पपूर्वन्तु गङ्गातीर्थमनन्तरम् ।
गत्वा तीर्थविधानेन दानं कुरु महामते ! ॥ ५०

स्नानमात्रात्ततः सद्यो मुखस्यास्य महामते!।
वैरूप्यं तत्क्षणादेव नश्ययेव न संशयः ॥ ५१