पृष्ठम्:श्रीविष्णुगीता.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्रीविष्णुगीता।



ज्ञातारः स्युस्तदा सर्वे ज्ञानिनस्तेऽधिकारिणः ॥ ७ ॥
पराभक्तेर्भवेयुर्हि मां तदैव समीशते ।।
 देशे काले च सर्वस्मिन् पात्रे द्रष्टुं न संशयः ॥ ८॥
पराभक्तेः किन्तु यावन्न ते स्युरधिकारिणः ।
तावन्मे सगुणस्यैव रूपस्योपासनां सदा ।। ९ ।।
कुर्वन्तः कृतकृत्यत्वं विन्दन्ति गतकल्मषाः।
रागात्मिकाया भक्तेर्मे ये भक्ता अधिकारिणः ।। १० ।। लीलामयाऽवतारस्य मम ते प्रायशः सुराः ।
विविधायां हि लीलायामासक्ता विग्रहस्य मे ॥ ११ ॥ लीलामयस्य चोपास्त्या लभन्ते मां सुनिश्चितम् ।
मम यन्निर्गुणं रूपं सगुणं तद्वदेव हि ॥ १२॥
लीलामयं विग्रहश्च सर्वमेकमुदीरितम् ।
अधिकारस्य भेदेन भक्ता एव हि केवलं ॥ १३ ॥
तारतम्यं निरीक्षन्त एषु रूपेषु मेऽमराः !। पूर्णांशाऽऽवेशरूपादिरूपैर्हि विविधैः खलु ॥ १४ ॥


हैं और तबही मुझको सब देश काल और पात्रमें देखने में समर्थ होते है, इसमें सन्देह नहीं है ॥ ७-८ ॥ परन्तु जबतक भक्त, पराभक्तिके अधिकारी न हों तब तक मेरे सगुण रूपकी ही उपासना करते हुए निष्पाप होकर सदा कृतकृत्यता लाभ करते हैं । हे देवतागण! मेरी रागात्मिका भक्तिके अधिकारी भक्त प्रायः मेरे लीलामय अवतारोंकी विविध लीलाओंमें आसक्त होकर मेरे लीलामय विग्रहकी उपासना करके मुझको निश्चय प्राप्त करते हैं। मेरे निगुण रूप, मेरे सगुण रूप और मेरे लीलामय विग्रह सब एकही हैं। हे देवगण ! केवल अधिकारभेदसे भक्तोंकोही इन मेरे रूपोंमें तारतम्य दिखाईपड़ता है । हे देवतागण ! मैंही पूर्ण, अंश और ।