पृष्ठम्:श्रीललितासहस्रनाम.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला २
[२५
सौभाग्यभास्करव्याख्या

स्वपंस्तिष्ठन्त्रजन्माग प्रजपन्भोजन रतः ।
कीर्तयेत्सततं देवीं स वै मुच्येत बन्धनात्'।।

इति देवीनामकीर्तनसामान्यस्यैव बन्धनिवर्तकत्वम्क्तम् । वामकेश्वरतन्त्रपि

मनसा संस्मरत्यस्या यदि नामपि नाधकः ।
तदैव मातचक्रस्य विदितो भवति प्रिये ।।

इति नामम्मरणसामान्यस्य मानृचक्रान्तं प्रसिद्धिः फलमवतम् । तथापि चतुर्धाकरण

न्यायेन विष्णुधमॉत्तरवचनेनैतेषामुपसं7ादत्रत्यो नामशब्दो भयापहेत्यादिनामवि
शेषपरत्वेन व्यवतिष्ठते ! अत एव नामविशंपाश्रयेण फलविशेषः काशीखण्डे स्मर्यते

उमानामामृत पात यन्नह जगतातल ।
न जातु जननीस्तन्य स पिबेत्कुम्भसंभव
उमति दृव्यक्षरं मन्त्र योऽहनिशामनुस्मरेत् ।
न स्मरेच्चित्रगुप्तस्तं कृतपापमपि द्विज ।।

इत्यादि । नन्वेवंसति फलश्रुतौ सर्वफलकत्चोक्तेरप्यनेनैव न्यायेनोपसंहारः प्रसज्जते ।

ततश्च सर्वरोगप्रशमनामित्यादिना चष्यमाणस्य सर्चफन्नप्रदत्ब वचनस्य नातीव सार्थ
क्यम् । न चार्थवादत्वंन सार्थक्यम् । वेदे तथा मुवचन्वपि पुराणेष्वासंभवात् । तदुक्तं
बृहन्नारदीये

पुराणे प्वर्थवादत्वं ये वदन्ति द्विजाघमाः ।
रजितानि पुण्यानि तद्वदेव भवन्ति वै ।।
समस्तकमनमल्यसाधनानि नराधमः ।
पुराणान्यर्थवादानि बूवन्नरकमश्नुते।।

इत्यादीति चेत् । मैवम् । तत्तन्नाम्नां शक्तिभेदेन फलभेद मिद्ध तत्समष्ट्यनुवाद

वात् । नचानुवादस्याप्यर्थानुबादान्तःपातित्वेनाक्तनिषेधवाक्य
विरोध । तत्रत्यार्थवादपदस्यात्मवपान्खेदनादिवाक्यममानयोगक्षमगुणवादपरन्वात् ।
'प्रतिमासु शिालाबुद्धि कुवाणा नरकं व्रजे' दियादो शिलात्वे सत्येव शिलाबुद्धिनिषे
धस्य शिलान्तरसाधारणदेवतानाविर्भावद्धिनिषेधपरत्ववत् । वस्तृतस्तु ' गवेभ्यः
कामेभ्यो दर्शपूर्णमामा 'विति वाक्यस्य ' दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते'त्यनेन
फलांशं नोपसंहारः । 'न हिंस्यात्सर्वा भूतानी 'ति निपेक्षस्य 'न ब्राह्मण हन्या'दित्य
नेनापि नोपसहार इति सिद्धान्तः । विशेपाकाइक्षायां सत्यामेवोपसहारावतारात् ।
अनयोििघनिषेधयो: सदपदघटितत्वेन विशिारय विशिष्यैव सर्वेषां फलानां प्राणिनां
चोपस्थित्या भावनान्वये कीदृशं फलं किं जातोयः प्राणाति विशेषाकाङ्क्षाया अनुद
यात् । तदुक्त तन्त्रवातिके

मामान्यविधिरस्पप्ट. सह्नियेत विशेषतः ।