पृष्ठम्:श्रीललितासहस्रनाम.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला २
[२३
सौभाग्यभास्करव्याख्या

इति । कालिकापुराणे

मायैका भिन्नरूपेण कमलारूया सरस्वती ।
सावित्री सा च संध्या च भूता' कार्यस्य भेदतः' ।। इति ।

बृहन्नारदीयेऽपि जगत्कत्रीं शक्ति प्रकृत्य

उमेति केचिदाहस्तां शक्ति लक्ष्मीं तथा परे ।
भारतीत्यपरे चैनां गिरिजेत्यग्विकेति च ।।
दुर्गेति भद्रकालीति चाड़ी माहेश्वरीनि च ।
कौमारी वैष्णवी चेति वार्दूीति तथा परे ।।
ब्राह्मीनि विद्याविद्येति मायति च तथा परे ।
प्रकृतिश्च परा चेति वदन्ति परमर्षय

श्रुतिश्च । एकधा बहुधा चैव दृश्यते जलचन्द्रव'दिति । देवीपुराण

देव्या व्याप्नमिदं विश्व जगत्स्थावरजंगमम् ।
इज्यते पूज्यनं देवैरन्नपानत्मिका च सा ।
सर्वत्र शांकरी देवी तनभिनमभिश्च मा ।
वृक्षेषव्यां तथा वायौ व्योम्न्यप्स्वग्नौ च सर्वशः' इति ।

निष्कलं त्वेकविधमव । तदेतत्सर्व कूर्मपुराणे हिमवन्तं प्रति देवीवाक्यं न स्पष्टीकृतम् ।

'अशक्तो यदि मां ध्यातृमैश्वरं रूपमव्ययम् ।
यदेव रूप में तात मनसो गोचरंतव ।।
यत्तु मे निष्कलं रूपं चिन्मात्र केवल शिवम् ।।
सर्वोपाधिविनिर्मुक्तमेकमेवामृतं परम् ।
ज्ञानेनैकेन तल्लभ्य क्लेशेन परमं पद' मिति ।

एवं स्थिते सगृणे ब्रह्मणि शक्त्या शब्दानां प्रवृत्तिनिराबाधैव । प्रवृतिनिमित्तभूतानां

धर्माणां सत्वात् । निधर्मके तु शब्दा लक्षणया प्रवर्तन्ते । विशिष्टकेवलयोस्तादात्म्य
रूपस्य शाक्यसंबन्धस्य संभवात् । निर्गुणे मिथ्यारूपस्य संबन्धस्य स्त्रीकारेऽपि स्वस
मानमत्ताकघमंशून्यत्वरूपनिर्धर्मकताया ब्रह्मणाऽनपायात् । अतीतानागतघटादिविप
यकज्ञानीयविपतासंबन्धस्यैवान्यतरस्मिन्संसप्टत्वमात्र गणैव तादात्म्यस्यापि संबन्ध

त्वाङ्गीकारसंभवाद्वा । अत एव त्रिशत्यां वक्ष्यते 'लक्ष्यार्थलक्षणागम्यति । अनया
भूत 2. रूपस्य, 3. निर्गणपि ध्यानरूपस्य