पृष्ठम्:श्रीललितासहस्रनाम.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६
[उपोद्घात
ललितासहस्रनाम

ब्रह्मकोटय इति शाकपार्थिवादेराकृतिगणत्वान्मध्यमपदलोपी समासः । बहुवचन
कोटिसंख्यापरम् । तेन प्रकृतिप्रत्ययाभ्यां मिलित्वा कोटिगुणिता काटििित
सिध्द्यति । जलधिसंख्याका ब्रह्माण्यस्तावन्त एव ब्रह्माणश्चेत्यर्थः । अतएव ' रुद्र
यामले सर्वमङ्गलाध्यानप्रकरणे' आवृतां ब्रह्मसहितब्रह्माणोकोटिभिरित्यादि स्मर्यते
।। ३४ । लक्ष्मीकोटिसमेता नारायणकोटीनां कोटय इत्यर्थः । रुद्राणामित्यपि
रुद्रकोटीनामित्यर्थकम् । यथाश्रुते तावदेकैकस्य रुद्रस्य कोटि कोटि गरी समेतत्त्राव
गतिः स्यात् पूर्वाभ्यां शक्तिभ्यां सह संख्यायां वैषम्यं च । यदि पुनर्बहुकोटि संख्या
रुद्रसमुदायस्वैव विशेष्यत्वाभिप्रायेण गौरीकोटिसमेतत्वरूपं विशंपण नत्वेकैकरद्रस्य
विशेष्यत्वाभिप्रायेणेति पर्यालोच्यते तदा यथाश्रुतमेव साधु । सर्वाणि बहुवचनानि

इक्तयो विविधाकारास्तासां संख्या न विद्यते ।: ३६ ।।
विठौघा मानवौघाश्च सिद्धौघाश्च समागताः ।
तत्र श्रीललितादेवी सर्वेषां दर्शनं ददौ ।। ३७ ।।


पुनरनन्तसंख्यापराणि ब्रह्माण्डानामानन्त्यंप्रति ब्रह्माण्डसृष्ट्यधिकारिपु' त्रयस्यावश्य
कत्वेन तेषामानन्ये विदादाभावात । तेषां युगपदाह्वानं तु सर्वब्रह्माण्डेष्वस्य प्रसिद्धि
संपादनायेत्याकूतम् ।। ३५ । विविधाकारा इति । “पमा शक्तिश्च दिशक्तिरिच्छा
ज्ञानक्रिया बला । बालान्नपूर्णा बगला तारा वाग्वानि। परा । गायत्री चैव
सावित्री िसद्धलक्ष्मीःस्वयंवरा। नकुली तुरगारूढा कुरुकुल्ला च रेणुका। संपत्करी
च साम्राज्यलक्ष्मीः पद्मावती शिवा ।। दुर्गा भद्राकृतिः काली कालरात्रिः सुभद्रका।
छिन्नमस्ता भद्रकाली कालकण्ठी सरस्वती ।।' इत्याद्याः रुद्रयामलादौ प्रसिद्धाः ।
यद्यपि पूर्वत्रापि कोटय इति बहुवचनेनासंख्यातत्वमेवोक्तं तथापीह ततत्समान
संख्याकाः प्रत्येक बालादयः सजातीया एव । परस्परविजातीया अप्यनन्ता इत्या
शयेन तासां नाम्ना विशिष्य निर्देष्टमशक्यत्वात्संख्या न विद्यत इत्युक्तम् । अथ
वा असंस्'या असख्यनामधेयमित्यर्थः । न विद्यते । न शक्यते वक्तुमिति शेषः ।
सम्यक् ख्यातीति संख्या नामनिर्देष्टेत्यर्थो वा ।। ३६ ।। दिवि भवा दिव्या दिक्पाः
लाद्या देवाः । मानवाः पुण्या ब्रह्मर्षयो विश्वामित्राद्याः । सिद्ध सनकनारदाद्या
योगिनः । तेषामोघाः संख्याविशेषाः । तथाच रुद्रयामले 'अनंककोटिदिक्पालैश्च
न्दार्कवसुकोटिभिः । सनकादैश्च योगीन्दैः सप्तर्षीणां च कोटिभिः। नारदादिमही
धानां कोटिभिः परिवारितामिति । तेनौघा इति बहुवचनमनेककोटिपरम् । पद्य
प्योघो नाम संख्याविशेषो न ज्योति:शास्त्रे प्रदृश्यते । यदुक्तं 'एकदशशतसहन्नायू:

तलक्षप्रयुतकोटयः क्रमशः । अदमब्ज खर्व निखर्वमहापद्मशङ्कवस्तस्मात् । जल
1. यावत् संख्याका 2. विशेषणत्वाभिप्रायेणेति 3. अधिकारिपुरुषत्रय

4. संख्या - आरुया.