पृष्ठम्:श्रीललितासहस्रनाम.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४
[उपोद्घात
ललितासहस्रनाम

अथाध्युष्टश्लोकैरम्बावचनम् । हे वशिन्याद्याः, यतो यूयं वाग्देवतास्ततो मम
वचनं श्रृणुध्वमिति योजना । युष्माकं वागीश्वरत्वान्मद्वचनश्रवणेऽपि भवतीना
भेदाधिकार इति प्रोत्साहनं व्यङ्यम् ।। २८ । ननु वशिन्याद्युपासका देवता

भवत्यो मत्प्रसादेन प्रोल्लसद्वाग्विभूतयः ।
मद्भक्तानां वाग्विभूतिप्रदाने विनियोजिताः ।। २९ ।।
मम स्तोत्रविधानाय तस्मादाज्ञापयामि वः ।। ३० ।।
कुरुष्वमङ्कितं स्तोत्रं मम नामसहस्रकैः ।
येन भक्तैः स्तुताया मे सद्यः प्रीतिः परा भवेत् ।। ३१ ।।

अपि वागीश्वर्यः सपतिताः किं त्वदाद्भावाक्यश्रवणे नाधिकारिण्य इत्याशङ्कया

भवत्य इति । ततश्चेति शेषः सर्वत्राध्याहृत्य योज्यः । प्रकर्षेणोत्कर्षण उल्लसन्त्यो
वाचो विभूतय ऐश्वर्य यासां ता : । इतरवैलक्षण्यं प्रकर्ष: । सर्वोत्तमत्वमुत्कर्ष ।
तेन सर्वोत्तभदेवताप्रसादलब्ध्राया विद्याया एव सर्वविद्योत्तमत्वात्तद्वत् एव सर्वो
तमस्तोत्रकरणेऽधिकारिण्य इति ध्वनिः । ननु नकुलीदेव्यादयोऽपि भगवतीप्रसाद
लधवागैश्वर्यशीला एवेति ता एव स्तोत्रकरणाय विनियुज्यतामत आह-मद्भ
बतानामिति । नकुलीवागीश्वर्यादयस्तु ललिताभवतैः सह विवदमानानां परेषां
वाचस्तम्भनादिष विनियक्ता । ततश्च सहस्रनामस्तोत्रस्यापि वाग्विभूतिरूपत्वेन
तस्य ललिताम्बाभक्तेभ्य एव दित्सितत्वेन नकुल्यादेस्तत्करणे विनियोजने वशि
न्याद्यधिकारभङ्गापतिरिति ध्वन्यम् ।। २९ । ननु वशिन्यादिभिरपि स्तोत्राणि
कृतानि सन्त्येव किमनेन नतनेनेत्यत आह-मच्चक्रस्य रहस्यज्ञा इति । चक्रस्य
बिन्द्रादिभूपुरान्तस्य रहस्यं वासनामयं शरीर जानन्तीति तथा । अथवा ।
अस्ति विमर्शरूपा स्वसंविद्विषयान्तरानवभासिनं ी । तस्या झटित्युच्चलनाकारप्रति
भोन्मज्जनात्मकोऽन्तःपरिस्पन्दः पूर्णाहंभावनामकस्तुयवस्थानामकश्च । तस्य च
शक्तयोऽनन्तविधास्तासां समूहश्चक्र तस्यानुमंघानं गुरुमूखैकलभ्यं रहस्यं तस्मिन्
सति स्वभिन्नस्य सर्वस्यापि स्वस्मिन्नेवोपसंहारो भवति। तथा च शिवसूत्रं ‘शक्तिच
क्रानुसंधानं विश्वसंहारः' इति । 'गरुरूपाय' इति च । तदिदं जानन्तीति तथा ।
ततश्चेतरेषु स्तोत्रषु चक्ररहस्यं न प्रकाशितमस्ति । चिकारयिषिते तु तदपि प्रका
इयमस्तीति व्यङ्गयम्। नन्वरुणोपनिषद्गृह्योपनिषत्रिपुरोपनिषदादिषु चक्ररहस्यमपि
प्रकाशितमेवास्तीति किमनेनेत्यत आह-मम नामपरायणा इति । नामशब्दो
देवतावाचकप्रातिपदिकपरो मन्त्रपरश्च । सौन्दर्यलहयाँ 'शिवः शक्तिः कामः' इति

मन्त्रोद्धारश्लोके मन्त्राक्षराण्युद्धत्यान्ते 'भजन्ते वर्णास्ते तव जननि नामावयवता
1. संति ता: