पृष्ठम्:श्रीललितासहस्रनाम.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १
[११
सौभाग्यभास्करव्याख्या

चत्वार ईं बिभ्रति क्षेमयन्त' इत्यत्रापि कादिपक्ष एव स्वरस इत्येके । हादिपक्षे
ऽपि तुल्येति तु रहस्यम् । किंच त्रिपुरोपनिषद्यपि 'अथैतस्य परं गह्वरं व्याख्या
स्यामः' इत्यादिना गायत्रीपञ्चदश्योरेकरूपत्वं वक्तुं तत्पदककारयोरेवैकार्थत्वमु
कतम । तन्मलकत्वेनैवान्या उद्धत । त्रिशत्यां कमेश्वराभ्यामप्यस्या एवादर
क्रियमाणो दृश्यते । तन्त्रराजे तु तृतीयकूटम्यैव प्रथभमुद्धारेण तत्रैवैकाक्षरनिवेशेना
न्ययोः कटयोलघवेनोद्धाराय हादिविचैवादृतेति ज्ञेयम् । अत एव त्रैपुरसूक्ते ‘षष्ठं
सप्तममथ वह्निसारथिम्' इत्यूचा कादेः पश्चादेव हादेरुद्धारः कृतः । 'शिव
शक्तिः कामः' इति सौन्दर्यलहरीस्थश्लोकद्वयं द्वेधापि व्याख्यायत इति दिक् ।।१७
उपासवानामित्यन्ताश्चतस्रो निर्धारणे षष्ठच: । उपास्ते: परमं फलमपास्याभेदः ।
स च पशिवे सावंकालिक एवास्तीत्युपासक्त्वं तस्याप्यविशिष्टम् । कथमन्यथा
तस्यादिनाथत्वं तदभेदानसंधानमस्मदादीनां च संगच्छते । देव्यभेदानुसंधानदाढयं
बललब्धाभेदेन गुरुणा सह शिष्यस्याप्यभेदानुसंधानाद्देव्यभेदलाभस्य नाथैकद्वारकता
या: सिद्धान्तरहस्यत्वादित्याशयेनाह-बरः शिव इति । परमशिव इत्यर्थः । तेन
गण"रुद्रादिनिरास ।। १८ । तथेति स्पष्टम । अर्धश्लोकोऽयम् ।। १९ :। मख्यत्वे
हेतुमाह--यथास्येति । यया निरवधिकमित्यर्थः । अन्येषां शिवविष्ण्वादीनां नाम
सहस्रमन्यच्च तन्नामसाहस्रमं च तस्येति वा । अथैतत्पाठं विधत्ते । प्रीतय इति ता
दथ्र्यचतथ्यां सर्वेभ्य: कामेभ्य इन्यादाविव कीर्तनकरणकभावनाभाध्यत्वप्रतीतिः ।
इदमिति तु धात्वर्थः कर्म सक्तूनितिबत् । अत एव तेन न्यायेनैव विनियोगभङ्गन
मत्वर्थलक्षणया नामसहस्रकीर्तनेन श्रीमातृप्रति भावयेदिति विधेः पर्यवसितोऽर्थः ।
अथवा सोमादिद्रयाणां यागसाधनत्वेन तृतीयाश्रुते. प्रत्यक्षत्वाच्च तत्र तथा वाक्या
र्थवर्णनेऽपि प्रकृते नाम्नां वर्णानिन्यत्ववा ताल्दोप्ठपुटव्यापाररूपकीर्तनजन्यत्वात्त
न्नित्यत्ववादेऽपि ध्वनं रनित्यत्वेन कीर्तनजन्यध्वन्यभिव्यङ्गयताया वर्णात्मकद्रव्येषु
स्वीकारादनत्पन्नस्यानभिव्यक्तस्य वा कीर्तनजनकत्वायोगान्नामाभिव्यञ्जककीर्तने
नेष्टं भावयेदित्वार्थः । कीर्तनं चेह वाचिकमानसोभयमाधारणम् । नामपठनव
न्नामस्मरणस्यापि वचनान्तरेषु फलश्रवणात् । तम्म:दिति हेत्वधिकरणन्यायेनार्थवादः।
अनिशां यावज्जीवम् । तेनाग्निहोत्रवन्नित्यकाम्योभयरूपमिदं कर्मेति सिध्यति ।।२०।।
अथ कीर्तनस्यान्याश्रयेणापि फनसंबन्धमाह-बिल्वपत्रैरिति साधन । यचनान्तरेण
प्राप्तमन्तर्यागबहिर्यागभेदेन द्विविधमपि पूजनं बिल्वपत्राद्यन्यतमकरणकं चक्र

सद्यः प्रसादं कुरुते तत्र सिंहासनेश्वरौ ।
चक्राधिराजमम्यच्र्य जप्त्वा पञ्चदशाक्षरीम् ।।
जपान्ते कीर्तयन्नित्यमिवं नामसहस्रकम् ।
जपपूजाद्यशक्तोऽपि पठेन्नामसहस्रकम् ।। २३ ।।


1. विचैवेति 2. परः . गृणि