पृष्ठम्:श्रीललितासहस्रनाम.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १
[
सौभाग्यभास्करव्याख्या

त्रयं स्वयमेव निरस्य का पुनश्चतुर्थी कोििरत्यनवधार्य पृच्छति-किमर्थमिति ।
भवत् तूंकोक्तयभावः किंप्रयुक्त इत्यर्थः । कारणं चतुर्थो कोटिम् । इतरकोटीनां
स्वेनैव निरस्तत्वादिति भाव ।।१०।।
अथैकदलोकः सूतोक्तिरूपः । भारते 'नापृष्टः कस्यचिद् ब्रूयादिति वेदान्
शामनमि' ति निषेधात्पृच्छकाय किमपि न वक्तव्यम
याद्यम्य नेच्छेत्पराभव'मिति नदुत्तरार्ध तदपि श्रद्धान्युप्रश्नासमर्थशिष्यपरम् ।
श्रद्धाभावे हानिस्म पातु । यदाह बोधायनः ।

अश्रद्धा परम: पाप्मा श्रद्धा हि परमं तप
तस्मादश्रद्धया दतं हविनश्नन्ति देवताः ।।
इटा दत्त्वापि वा मखैः स्वर्ग न हि स गच्छति ।
शङ्काविहितचारित्रो यः स्वाभिप्रायमाश्रितः ।
शास्त्रातिगः स्मृतो मूख धर्मतन्त्रोपरोधनादि' ति ।
श्रुतिरपि 'श्रद्धयाग्निः समिध्यते श्रद्धयाहूयते हवि' ।।

रित्यादि । ततश्च श्रद्धाभावे पृच्छकायापि न वक्तव्यं किमुतापृच्छकाय ।

तत्सः न यांद शिष्य: प्रश्नं न समर्यः तदा प्रश्नमप्रीतीक्ष्यैच गरुर्वदेदिति स्थितिः ।
प्र नै त्वगस्त्यः श्रद्धालुः प्रश्ने समर्थश्च अथापि किमिति न पच्छतंiति चिन्तयानो
नाप्ट इन निषेधादू ता देशिकसावंभौमो भगवान् हयग्रीवः शिष्यवृतशुथूगया

सूत उवाच ।


इति पृष्टो हयग्रीवो मुनिना कुम्भजन्मना ।
प्रहृष्टा वचन प्राह तापस कुम्भसभवम् ।। ११ ।।
लोपामुद्रापतेऽगस्त्य सावधानमनाः शृणु ।
नाम्नां सहस्र यन्नोक्तं कारणं तद्वदामि ते ।। १२ ।।

वशीकृनो विवक्षुरपि भक्तिपूर्वकप्रश्नाभावकृतविलम्बादियन्तं कालं दुःखित इवाभूत् ।

अधुना तु न नथंत्याह मूतः – इति पृष्ठ इति । चतुर्यकोटिविषयकप्रश्नकर्मीभूत
त्यर्थः । प्रच्छधाताद्विकर्मकतया कोटिवद्गुरोरपि कर्मत्वात् । प्रहृष्ट विलम्बाप
दमादिति शेषः । तपोभिर्यज्ञादिभिः पापक्षय सत्यङ्कुरितविविदिषाकत्वादस्ति
श्रद्धेति योग्यतां प्रदर्शयति-तापसमिति । चित्तवृत्तिनिरोधकारणीभूतवायुवृत्तिनि
रोघशीलत्वादपि योग्यतामाह – कुम्भसंभवमिति । कुम्भस्य कुम्भकस्य सम्यक
चिरकालं भवः स्थितिर्यस्मिस्तमित्यर्थः । रेचकपूरकयोः सार्वजनीनतया सुलभत्
वान्निरोधपदवाच्यत्वाभावाच्च तत्परित्यागेन कुम्भकस्यैव ग्रहणम् ।। ११ ।।
अथ साधैः षोडशभिः श्लोकैर्हयग्रीवोक्तिः । पूर्वश्लोक एव हयग्रीवः प्राहे.
त्यक्तत्वान्नेतदारम्भे हयग्रीव उवाचेत्युक्तिः । एवमम्बावचनेऽप्युत्तरत्र ज्ञेयम् । भर्थः