पृष्ठम्:श्रीललितासहस्रनाम.pdf/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १२ ]
३४१
सौभाग्यभास्करव्याख्या ।

बाजपेयस्य फलवत्वेन प्राधान्यात्तत्प्रकरणे पठितस्य बृहस्पतिसवस्य तदङ्गस्वसंभ
वेऽपि प्रकृते द्वयोरपि फलसंयोगाभावेन प्रकरणिनो निश्चयाभावेनाङ्गाङ्गिभावे
विनिगमनाविरहात् विश्वजिन्यायेन फलकल्पनस्योभयोरप्याकाङ्क्षाविशेषेण तुल्य
तया 'दर्शपूर्णमासाभ्यामिष्ट्रा सोमेन यजेते' तिवत्कालार्थस्येव संयोगस्य सिद्धः ।
न च 'एवं यः कुरुते भक्त्ये' ति वाक्येन त्रिशतभोजनेन विधेरानन्तर्यात्फलवत्त्वे
बोधिते मित्याबलेः फलवदफलन्यायेन न आमनहोमानामिवाङ्गसिद्धिरिति वाच्यम् ।
तत्र हि 'वैश्वदेवीं सांग्रहिणीं निर्वपेद्ग्रामकाम ' इत्युत्पत्तिविधावेव फलश्रवणेन
सांग्रहण्या आमनहोमाङ्गित्वसिद्धावपि प्रकृते भिन्नवाक्योपात्तस्य फलस्याकाङ्क्षा
वशाद्वाक्यैकवाक्यतयान्वयस्य वक्तव्यतयोभयोरप्याकाङ्क्षावशात्फलसंबन्धसिद्ध: ।
एवं यः कुरुत' इत्यत्रैवंपदेनोभयोरनुवादसंभवात् आनन्तर्यस्योभयाकाङ्क्षातं)
दुर्बलत्वात् वाच:कमवर्तित्वेनावर्जनीयत्वाच्च । अत एवोक्तं “आनन्तर्यमवोदने' ति
किंच नित्यावलिप्रकरणे विहितानां गन्धतैलाभ्यङ्गादिपायसफलादिनिवेदनान्ताना
मङ्गानामनुवादेन विभदपरत्वेन व्यवस्थाविधिस्त्रिशतभोजनप्रकरणे श्रूयमाणः परो
वासापेक्ष इति तन्निर्वाहायानयो: प्रकृतिविकृतिभावकल्पनया नित्याबलिधर्माणां
त्रिशतभोजनेऽतिदेशो वक्तव्यः । तेन प्राकृतानां कामेदवर्यादिनाम्नां वैकृतैः ककार
रूपादिनामभिः शरन्यायेन बाधोऽपि संगच्छते । अङ्गस्य हि प्रधानं प्रति प्रकृतित्व
मसंभवि , भावनायां हि भाव्यान्वयोत्तरं कारणान्वयस्ततः कथंभावाकाङ्क्षायां वम
णामन्वय इति भाव्यान्वयात्पाश्चात्योऽङ्गत्वनिर्णयस्ततोऽपि पश्चादतिदेशः 'अङ्ग
सदतिदिश्यत' इति न्यायादिति स्थितिः । ततश्च त्रिशतभोजनकरणकभावनया
भाव्यकरणयोरन्वयोत्तरं तृतीयक्षणे कथंभावाकाङ्क्षाकाल एव नित्याबलेरङ्गत्वं
बदता भाव्याकाङ्क्षा वक्तव्या । तदुतरक्षणे परस्पराकाङ्क्षालक्षणेन प्रकरणेनो
भयोरङ्गाङ्गिभावे सिद्धे त्रिशतभोजनभावनाया निराकाङ्क्षत्वात्ततोऽपि पश्चात
नानां नित्यबल्यङ्गानां कथं प्रधानेऽतिद्देशसिद्धिः । नहि प्रत्येक स्वस्ववाक्येऽशत्रय
परिपूर्णयोः पौर्णमासीवैमृषयोरिव वाक्यान्तरेणाङ्गाङ्गिभावबोधः, तादृशवाक्या
दर्शनात्, प्रकरणादङ्गाङ्गिभावस्य तूक्तरोत्या संभवात् । । न च त्रिशतभोजनविकृतौ
सहस्रभोजनेऽतिदेशाल्लिङ्गादेवाङ्गत्वसिद्धिरिति वाच्यम् । लिङ्गदर्शनमात्रनिर्णय.
स्यानिर्णायकत्वात । सहस्रभोजन इति सप्तम्या 'तत्र जयान्जुहुया' दितिवदङ्गित्व
बोधकतयान्यत्र प्रधानस्यापि नित्याबलेस्तावन्मात्रं प्रत्येबाङ्गत्वमिति बोधनेनाप्यति
देशवाक्योपपत्तेश्च । बृहस्पतिसवे तथा दर्शनात् । इयांस्तु विशेष :- तत्र प्रकर
णान्तराद्भद:। अत्र तु त्रिशतीप्रकरण एव दूरस्थानूवादेन द्वादशोपसत्ववन्नित्यामले
रङ्गत्वविधानात् 'संनिधौ त्वविभागा 'दिति न्यायेन न भेद इति । तस्मान्नित्या
लित्रिशतभोजनयोः समप्राधान्यमेवेति । सिद्धान्तस्तु-फलविधिवाक्यस्य नित्या
बलिवाक्येन सहान्वयस्तूभयाकाङ्क्षामात्राद्वक्तव्य । त्रिशतभोजनवाक्येन तु सहा
नन्तर्येणोभयाकाङ्क्षायां चेति झडिति तेनैव सहान्वये नित्याबलेः फलवदफदन्यायेन