पृष्ठम्:श्रीललितासहस्रनाम.pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १२ ]
३३१
सौभाग्यभास्करव्याख्या ।

सुगन्धिपदमहिफेनादिदुर्गन्धिकुसुमानामेव निरासाय ! निर्गन्धानामपि जपा
दीनां रक्तानां देवीप्रियत्वात् । 'गन्धस्येदुत्पूतिसुरभिभ्य' इति समासान्तम् ।
माधवी दासन्ती । मुखपदेन पुंनागकुलादीनां ग्रहणम् । एतेषामप्यवान्तरतारतम्य
मादित्यपुराणकालिकापुराण योद्रष्टव्यम् । फेत्कारिणीतन्त्रे तु विशेषः

पुष्पं वा यदि वा पत्र फलं नेष्टमधोमुखम् ।
दुःखदं तत्समाख्यातं यथोत्पन्न तथार्पयेत् ।।
अधोमुखार्पणं नेष्टं पुष्पाञ्जलिविधिं विना ।
लक्षपूजादिषु पुनः पुष्पमेकैकमर्पयेत् ।
समुदायेन चेत्पूजा लक्षपुष्पाणि न तत् ।

इति । अत्र हि द्वन्द्ववत्तदपवादकैकशेषोपि साहित्यार्थकः । 'एकादशप्रयाजान्यजती

त्यत्र सहितेष्वेवैकादशत्वस्य निवेशो न प्रातिस्विकमिति सिद्धान्तात् । ततश्च
सुगन्धिकुसुमैरित्येकशेषवशान्मल्लिकाकरवीरयोः केतकीमाधव्यादीनां च द्वन्द्ववशाच्च
समूच्चयेन करणत्वं मा प्रसाङ्क्षीदिति तदपवादाय पूर्वेश्लोकयोर्वाकारः । सोऽपि
च प्रतिपुष्पमत्वयितव्य इति ध्वनयितुं द्विस्त्रिः प्रयुक्त । तथाच निरपेक्षकरणता
बोधकतृतीयाविभक्तयोऽपि व्रीहियवन्यायेनानुगृहीता भवन्ति । महेश्वरः पञ्चप्रेतेषु
चतुर्थः तस्याप्यसर्वज्ञत्वाद्वक्तुमसामथ्र्ये पूर्वोक्तराशिषट्कादिगुणनोपायेन मनुष्याणां
ज्ञातुं वक्तुं च सामथ्र्याभावः कैमृतिकन्यायेन सिद्ध इति फलस्यानवधिकत्वध्वनिः
।। २४७ ।।

सा वेत्ति ललितादेवी स्वत्रार्थनजं फलम् ।
अन्ये कथं विजानीयूत्रह्माद्याः स्वल्पमेधसः ।। २८८ ।।

अत एव सर्वज्ञेकपरिच्छेद्यमित्याह-सेति। ब्रह्मादीनामज्ञातृत्वे पांचगलंकारेण

हेतुगर्भ विशेषणम् । स्वल्पमेधस इति स्वल्पा मेघा घारणात्मिका बुद्धिर्येषां ते ।
नित्वमसि प्रजामेधयोरिति समासान्तः । ननु रशिषट्कवेद्यफलक कठिनतरं
प्रयोगमपेक्ष्यास्य गुष्पार्पणप्रयोमस्य सुलभत्वेन ततोऽप्यनवविफलकत्वे कठिनतरप्रयोगे
कस्यापि प्रवृत्ययोगादननृष्ठानलक्षणमप्रामाण्यं प्रसज्यतेति चेत् भ्रान्तोऽसि। कठिन
तरप्रयोगस्यानिशनित्यादिपदघटितविधिबोध्यत्वेनाकरणे प्रत्यवायबोधनेन नित्यत्वात्।
नित्याकरणे आयुष्करादिपुष्पार्पणादिकाम्यप्रयोगेष्वधिकाराभावस्योक्तत्वात् । नित्य
स्यापि वचनबलात्काम्यत्वं त्वग्निहोत्रादिन्यायेन न विक्षमिति न प्रवृत्तिपराहता ।
अथ प्रयोगविधौ विशेष –“चक्रार्चनारम्भ एवापरिमितपुण्यप्राप्त्यर्थममुककुसुमैर्देवीं
पूजयिष्यामीति संकल्प्य आसनपूजोत्तरं पूर्वभागं पठित्वा न्यासत्रयं कृत्वा प्रणवमुच्चा
यद्विताराद्यनंमोन्तैश्चतुथ्र्यन्तनाममन्त्रैः ‘हींश्रींश्रीमात्रे नमः' इत्यादिरूपैरेकैकं पुष्पमे