पृष्ठम्:श्रीललितासहस्रनाम.pdf/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १२ ]
३२७
सौभाग्यभास्करव्याख्या ।

तस्मै देयं प्रयत्नेन श्रीवेदोपतिमिच्छता ।
यः कीर्तयति नामनि मन्त्रराजं न वेति य: ।। २७२ ।।

तस्मै सपात्रय प्रयलेनापि तस्म एव देयम् । उत्तम लाभे मध्यमयापि

देयमित्यादिरर्थो स्थायलब्धोऽपि विधिरेव । तदुक्तं पुलस्त्यमृतो

अदृष्टयों विधिः प्रोक्तो दुष्टार्थश्च द्वितीयकः ।
उभयार्थस्तृतीयस्तु न्यायमूलश्चतुर्थकः ।

इति । इममेवार्थं वदन|न्ये म्यस्तु कदाचनेत्यंशं विशदयति ।

न कीर्तयति नामानि मन्त्रराजं न वेत्ति यः ।
पशुतुल्यः स विज्ञे यस्सस्मै दतं निरर्थकम् ।।

इति । अत्र च त्रिगुणत्रिगुणातिरिक्तान्पञ्चषि य इत्यनेनोद्दिश्य पशुतुल्यत्वं

विधित्सितं तेषां च त्रिगुणत्वावच्छिन्नप्रतियोगिताभाववत्वेनानुगमः । एकगुण
द्विगृणकेष्वपि व्यासज्यवृत्तिधर्मावलिछन्नप्रतियोगिताकस्य तस्य मुलभवत् । स च
भाव उद्देश्यतावच्छेदकः पूर्वार्धेन निरूपितः । तत्र यद्यपि द्वयोरेत्र गुणयोरभाव
उद्वद्धित. प्रतीयते तथापि पत्रलक्षणं त्रयाणां विशेषणानामुपादानात्तदनुसारेण
पशु लक्षणेऽपि त्रयाणामभाव एव विवक्षितः । परंतु व्यापकभावेन व्याप्याभावोऽद्या-
यात इत्याशयेन च करजं नार्चीत्यंशः कष्ठरवेणोक्तः । मन्त्रवेदनस्य चऋचंकव•
व्यापकत्वात् ' ।। २७९ ।।

पशुतुल्यः स विज्ञेयस्तहनं दत्तं निरर्थकम् ।
परीक्ष्य विद्याविपुषस्तेभ्यो दद्याद्विचक्षणः ॥ २४० ॥

पशुतुल्य इति पशुश्च पशुश्चेति विग्रहेणैकशेषे ताम्यां तुल्य इति समासः ।

तत्रैकः पशुशब्दश्चतुष्पात्पर: । अन्यश्च निरूढलक्षणया 'विद्याविहीनः पशु' रिति ।
प्रसिद्पशूपरः। विद्या च श्रीविद्येव । सदुत्रतं ब्रह्माण्डपुराण एव

न शिल्पादिज्ञानयुक्ते बिहूच्छब्दः प्रयुज्यते ।
मोझेकहेतुविद्यावान्यः स विद्वानितीर्यते ।।
मोनॅकहेतुविद्या च श्रीविद्या नात्र संशयः ।।

इति। ततश्चोद्दिष्टानां पञ्चानां मध्ये त्रयाणां विद्यावत्वेऽपि चक्रार्चननामकीर्तनयो

रथिकारसत्वेऽप्यकरणाद्विद्यामानाप्यविद्यमानम्नायैव विचेति तेषां तादृशपशुतुद्यता ।
नामपात्रपाठिन भवत्रयवतश्च चतुष्पात्पशुतुल्यतेति विवेकः । तस्मै दत्तं तत्संप्र-