पृष्ठम्:श्रीललितासहस्रनाम.pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १२ ]
३१५
सौभाग्यभास्करव्याख्या ।

नन्वेव सति प्रायश्चित्तशास्त्राणामानर्थवयमित्याशङ्कां परिहरन्प्रीतिविशेष
परिमाणमुपसंहरति-भक्त इति । भक्त उपासक । नित्यं यावज्जीवम् । इदं
पूर्वोक्तविततिरूपक्रमविशिष्टत्वेन बुद्धिस्थम् । प्रीता प्रीतिविशेषयक्ता सती ।
अभीष्टं उक्तपुण्यराशिजननपापराशिनाशनोभयरूपम् । अत्रेदं बोध्यम्...इदं विशे
षाच्छुीदेव्या इति प्रीतिविशेपजनककर्मोपक्रमावसरे पाठे चत्वारि विशेषणान्युल्लि
खितानि-उपासककर्तृकत्वं, संपूर्णस्तोत्रकर्मकत्वं, यावज्जीवंक्रियमाणत्वं, प्रातः
स्नानादिप्रधानचतुष्टयसाहित्यं चेति । तान्येव चास्मिन्नपसहारश्लोकेऽपि पुनः परा
मृष्टानि । उपक्रमोपसंहारयारैकरूप्यादिमानि विशेषणानि विवक्षितान्येव । अविव
क्षायां प्रमाणाभावात् । तत्र प्रथमेन विशेषणेन प्रायश्चित्तशास्त्राणां वैयथ्यं
निरस्तम् । तेषामनुपासकेषु सावकाशत्वेन तत्परतयंव व्यवस्थोपपत्तेः । द्वितीयेन
त्वेकैकनाममात्रपाठेनात्मानं कृतकृत्यं मन्यमाना निरस्ता: । एकैकनामपाठस्य
पार्थक्येन प्रयोगस्य निष्प्रमाणत्वेन तस्येदृशमहाफलजनकत्वे मानाभावात् । न च
नाम्नोऽप्येकस्य कीर्तना 'दिति वचनमेव राजसूयान्तर्गतावेष्टेरिव पृथक्प्रयोगे मान।
भावात् । न च । नामैकमपि यः पठेत् ' 'नाम्नोऽप्येकस्य कीर्तनात्' इत्यादीनि
प्रकरणस्थान्येव वचनानि पृथक्प्रयोग प्रमाणमिति वाच्यम् । उपक्रमोपसंहाराभ्या
मेकवाक्यत्वे सिद्धे तन्मध्यपठितानामीदृशवचनानामवयवद्वारावयविन्येव तात्पर्यस्य
जातेष्टिवाक्यमध्यपठिताष्टाकपालादिवाक्यन्यायन सिद्धे । यत्रैक्रस्यापि नाम्न
एतावत्फलं किम् वक्तव्यं तत्र सम्पूर्णस्तोत्रस्य तावत्फलं भवतीति कैमुतिकन्यायेन
स्तोत्रप्रशंसोपपत्तेः, अपिशब्दस्वारस्थेन तथा प्रतीतेश्च । यद्वा एकस्य नाम्न
एतावत्फलमित्युक्तिरेतत्सहस्रगुणितस्य स्तोत्रफलत्वसिद्धयर्था नतु पार्थक्यंन फलवत्व
सिद्धयर्थापि । उभयत्र तात्पर्ये वाक्यभेदप्रसङ्गात् । अत एव 'एकं वृणीते' इत्यादे
त्रीन्वृणीते' इत्येतदुपपादनार्थतायाः स्वीकारात् । एकाक्षरादिषोडशाक्षरान्तनाम्नां
तुल्यफलकत्वायोगाच्च । तथात्वे इतरवैयथ्यादिदोषाणा स्पष्टत्वात् । तृतीयेन तु
विशेषणेनानियमेन कतिपयदिवसपर्यन्तपाठादेव तादृशाफललिप्सा निरस्ता । 'जन्म
मध्ये सकृच्चापि य एवं पठते सुधी'रिति वचनस्याप्येकवाक्यमध्यपठितत्वेनापि
शब्दस्वारस्याच्चोक्तरीत्या द्वयी गतिरूह्या । चतुर्थेन विशेषणेनाग्नेयादीनां षण्णां
परस्परसाहित्यभावं फलानृप्पतिवदिहापि तथेति सूचितम् । इयांस्तु विशेष
आग्नेयादीनां दर्शपूर्णमामवाक्येन सहितानामेकफवसाधनत्वावगमादन्यतमाभावेऽपि
फलोत्पतिरेव न भवति। इह तु सहस्रनामपाठाभावेऽप्यन्येभ्यः प्रधानेभ्यस्तत्तत्फला
न्युत्पत्तुमर्हन्त्येव । न च प्रधानान्तरसाहित्य1भावमात्रेण सहस्रनामपाठस्य नैष्फल्यं
कथं स्वचमिति वाच्यम् । ईदृशप्रयोगजन्यफनविशेषस्य प्रमाणाभावादनुत्पत्तावपि
नाभम्मरणजन्यफलान्तराणां वचनान्तरादधिगतानां संभदेन नैeफल्थायोगादिति दिक
।। २५१ ।।

व्अकीर्तयन्निदं स्तोत्रं कथं भक्तो भविष्यति ।। २५२ ।।