पृष्ठम्:श्रीललितासहस्रनाम.pdf/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १२]
३०७
सौभाग्यभास्करव्याख्या ।

निध्ये इत्यादि: पाक्षिकः प्रयोगो न कार्यः। एवं मन्त्रार्थानुसंघानेऽपि फलभेदः
तदित्यादिपञ्च नामानि नपुंसकानि । शेषाणि स्त्रीलिङ्गानीति शेषः । त्वमिति
पदमपि स्त्रीलिङ्गमेव । 'अलिङ्ग युष्मदस्मदी’ इत्यस्य लिङ्गकृतवैरूप्याभावमात्र
परत्वात् । 'युष्मदस्मत्षट्संज्ञकास्त्रिषु सरूपा' इति वचनान्तरनुगुण्यात् । स्वष
स्वाहेत्यनयोरभ्ययत्वात्स्वधा नम इत्यदिरेव प्रयोगः । स्वान्धते इत्यादिरूपेऽर्थे तु
स्वधायै नम इत्यादिरेव प्रयोगः सुवच इत्युक्तम् ।। ३७ ।

इति भास्कररायेण कृते सभाग्यभास्करे ।
दशमेत दातेनभयारिष्यैकादश कला ।। १००० ।।


इति श्रोभास्कररायविरचिते ललितासहस्रभाष्ये दशमशतक
नामैकादशी कला ।। ११ ।।


अथ फलश्रुतिश्लोकानामयं संगृह्वाति परिभषाकारः । सार्धषडशीतिश्लो-
काश्मकस्योतरभागस्य मध्ये प्रथमतः सर्वं विशतिभिः श्लोकैः सहस्रनाम कीर्तनस्य
बहुविधफलमश्नत्वं प्रतिपाद्यते । एवं फ़नभेदेन कीर्तनक रणभावनया भेदादिति
कर्तव्यताभेद उत्तरत्र षट्चत्रमरिंशता श्लोकं: प्रतिपाद्यते । 'सर्घरोगप्रशमन ' मि-
त्यादिना निराप्तादीनि फलानि येन क्रमेण पूर्व प्रतिपादितानि तेनैव क्रमेणोत्त
रत्र तत:फलकाः प्रयोग वक्ष्यन्त इत्यर्थः । यत्तु पूर्व ‘श्रीमातुः प्रीतये तस्मादिन
कीर्तये विद 'मित्यत्र प्रीरेिण भब्योमता मा च विविधफव जननद्वारस्वेन पूर्वतने
पूर्वस्येवास्य सग्ने देयतानोनेरेव द्वारस्त्रकस्पनसंभवत् । अस्तु व स्वातन्त्रर्षेण
प्रीतेरपि फलत्रमित्याशयः ।। ३४ ।

इत्येवं नमसादनं कथितं ते घटोद्भव ॥ २३४ ॥

एवं प्रतिफल ककीर्तनोपयोगि नामसदनं प्रतिपाद्य तदुपसंहरफलानि विवेच

यितुकामो भगवाहयग्रीवचर्य उत्तरं अन्धसंदर्भमारभते-इत्येवमित्यादि । इति
श: समाप्तिवचनः सन्स र्हस्रसंख्याया अन्यूनानतिरित्रतानां वनयति । एवमुक्तेन
प्रकरेण यथावत्प्रतिपादितेन सरस्वतीगङ्गासहस्रनामादौ सहस्रसंख्यापूर्तेरभावाद
पार्टीको गौणो व सहस्रनामशब्दो नात्र तयेति ध्वनितम् । नम्नां सहस्रमेव
सहास्त्रम् । राक्षसमानसादिवत्स्वार्थे तद्धितः। घटोद्भवेत्यगस्त्यथ संबुद्धिः
२३४

रहस्यानां रहस्यं च ललितप्रीतिदायकम्।
अनेन सदृशं स्तोत्रं न भूतं न भवति ॥ २३५ ।।