पृष्ठम्:श्रीललितासहस्रनाम.pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १०]
२५१
सौभाग्यभास्करव्याख्या ।

इति गीतासु धामशब्दस्यावस्थपरतया तदतिक्रान्तं यत्परं धाम । उक्तं चाचार्यः

त्रिषु धामसु यद्भोग्यं भवता यश्च प्रकीतितः ।
वेदैनदुभयं यस्तु स भुञ्जानो न लिप्यते ।

इति । यशवंभघवृषsष-

जाग्रत्स्वप्नसुषुप्याख्यं वेदधामत्रयं तु यः ।
स एवम न तद्दृश्यं दृश्यं तस्मिन्प्रकल्पितम् ।।
त्रिधामसाक्षिणं सस्यज्ञानानन्ददिलक्षणम् ।
त्वमहंशब्दलक्ष्यार्थं परं धाम समाश्रये ।

इति । धमशब्दः पदपरो वा । परं पदमित्यर्थः। ‘तद्विष्णोः परमं पद ' मिति

श्रुतेः । कूर्मपुराणेऽपि--

संषा महेश्वरो गौरी मम शक्तिनिरञ्जन।
शान्ता सत्या सदानन्दः परं पदम् ।।

इति श्रुतिरपि । परस्मै ज्योतिषे नमः, परस्मै धाम्ने नम इति प्रयोगः । परमिति

मन्तमव्ययमित्याहुः ।

परमाणरिति--परमा च साण्वी च 'वतो गुणवचमा 'दिति बिबिधैवेंकलिन
करवात् जीवभवः । 'अणोरणीयानि' ति श्रुतिः। दुर्जेयेत्यर्थः । तकककल्पिताः
पीलबोऽप्यस्या एव रूपमिति वा । परम उत्कृष्टोऽणुमंत्रो वा ।

धराधरेति--रादुत्कृष्टार्बह्मविष्णु द्दषि परा । श्रेष्ठतरा। यदा ह्यायुः
परिमाणं परमित्युच्यते तस्मात्पर तादृशसंख्यापरिश्छेदरहिता । तत्र परंधत्व
परमाणुत्वं च हेतुः । तत्रैव च दंशित कालोपुराणे-

तस्य ब्रह्मस्वरूपस्य दिवारात्रं च यद्भवेत् ।।
तत्परं नाम तस्यधं परार्द्धमभिधीयते ।।
स ईश्वरस्य दिवस्तावतो रश्रिरुच्यते ।
स्थूलास्यूलतमः सूक्ष्माद्यस्तु मूर्दभतम। मतः ।।
न तस्यास्ति दिवारात्रिव्यवहारो न बत्सरः ।

इति ।


पओोति-पाश हस्ते वामाधःकरे यस्याः । 'प्रहरणैश्य. परे निष्ठासप्तम्या '
विति पूर्वनिपातपवादः । पाशान् ३स्तयते हस्तेन निरस्यतीति वा । ।

पाशeनोति–पाशानां हैमी नायिका । उक्तं च हरिवंशे