पृष्ठम्:श्रीललितासहस्रनाम.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९५
[षष्ठशतकम्
ललितासहस्रनाम ।

नित्यानित्योदिते मूलाधरमध्येऽस्ति पावकः।
सर्वेषां प्राणिनां तद्वद्दये च प्रभाकरः ।
मूर्धनि ब्रह्मरन्ध्राधश्चन्द्रमाश्च व्यवस्थितः ।
तत्रयात्मकमेव स्यादद्यानित्यत्रखण्डम ।


इति । अयवा पूर्वोक्तं रवितुःयत्वमुपमानोपमेयनध्छथोवंस्तुतो भिन्नयोरपि घर्पयोः
श्लेषभित्तिकाभेदध्यवसायेनैकीडुर्वन्साघरणधर्म निदिशति- त्रिकोणेति । देवी
पक्षे तु पूर्वयोजनैव । रविपक्षे यथा । मेरुं प्रदक्षिणीकुर्वन् २विरष्टकोणात्मकस्य
मेरोस्त्रींश्रीनेव कणानवभासयति । तथाहि 'इन्द्रपुरे में बातें सूर्य स्थिते सौम्य
याम्यपुरयोरस्तमयोदयौ । एवं कोण त्रयतया स्थित पुरत्रयमेव भासयति। ईशानि-
कोणौ तु त्रिकोणरेखामध्यषमिताविति तेह्रासनमथवतम् । ईशे तदानीं तृतीयो
यामः । आग्नेये तु प्रथमो यामः । एवं दिक् त्रयं मध्यपतितवाद्विदिग्द्वयं च भासन
यति । अग्निपुरे यदा मध्याह्न (?)स्तद्देशन फ़ेयोरस्तमयोदयौ । इन्द्रयमपुरय
स्तृतीयप्रथमयामौ । एवं षट्कोणश्रयतया स्थितं विदत्रयं तद्रेखास्थमापनं दिग्द्वयं
च भासयति । एवं यास्यादिपुरेषु मध्याह्नवल ऊाम् । तदुक्तं विष्णुपुशरै--

शक्रादीनां पूरे तिष्छन् स्पृशत्येष पुरत्रयम् ।
त्रिकोण हौ त्रिकोणस्थस्त्रोकणान्तुं पुरे तथा ।


इति । स्वावस्थिति कोण एकः स्वदक्षिणवामकोणौ हो । एवं त्रीकोणान्
तदन्तरे न तन्मध्यस्थिते स्वदक्षिणवामरेखे चेत पुरषदकं दीपयति प्रकाशयनीति
त्रिकोणान्तरदीपिका ।

यक्षयशीति--दक्षस्य कन्या दाक्षायणी। लोहितादिस्वाष्फः अश्विन्यादि-
रूपा वः। । ‘दाक्षायणो त्वपर्णाय रोहिण्यां तारकासु चे' ति विश्वः । दर्शपूर्णमा-
सयोरावृत्तिर्दाक्षायणयज्ञपदेनोच्यते तद्य वः।

त्येति-दैत्यानां भण्डासुरादीन् हत्री ।

बझेत- दक्षो द्विविधः । एकः प्रजापतित्वेन प्रसिद्धः । अन्यो मानुषो राज।
तस्यैवावतारविशेषः। उभयोरपि यज्ञे विनाशयितं शलमस्याः । ताच्छील्ये णिनि:
शिवकृतेऽपि यज्ञनाशे देव्या निमित्तत्वकर्तृत्वव्यपदेशः । तदुक्तं ब्रह्मपुराणवायु-

अभिव्याहृत्य सप्तर्षीन् दक्ष सोऽभ्यशपत्पुनः ।
भविता मनुषो राजा चाक्षुषस्य त्वमन्वये ।
प्राचीनबर्हिषः पौत्रः पुत्रश्चैव प्रचेतसः।
दक्ष इत्येव नाम्ना त्वं मारिषायां जनिष्यसि ।।