पृष्ठम्:श्रीललितासहस्रनाम.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

XX

वर्षेप्वतीतेषु शकेषु भट्सु तिष्येऽवतीर्ण मुवि शङ्करार्यम्।
शिष्यैश्चतुर्भिः सहितं शिवादिपारम्परं ॥ानमामः || ७२ ।।

हन्ताहन्ताहन्तान्तर्वाणिगणस्य तत्त्वभुवि रन्ता ।
ध्वन्यध्वन्यध्वन्यः श्रीनरसिंहाध्वरी गुरुर्धन्यः ।| ७३ ।।

साक्षाद्दाक्षासमक्षापतदमृतझरीमाधुरी साधुरीति
र्मल्लीवल्लीमतल्लीकुसुमपरिमलाखर्वगर्वापहन्ती ।
भाषा येषामशेषा विन्टदजजटाजूटसंभ्रान्तगङ्ग
तुङ्गत्वङ्गतरङ्गध्वनिमधरयते तानुमः श्रीनृसिंहान् ।|| ७४ ॥

विधिविष्णुमुखामरोदयस्थितिनाशेषु शिवोऽप्यनीश्वर ।
जगदम्ब तव त्वयं क्रमः क्षणमुद्दालकपुष्पभञ्जिका । ७५ ॥

शिरःस्थशलक्षणं त्रिपुरदैत्यसंतक्षणं
दुरतविषभक्षणं सुरनिकायसंरक्षणम्।
नरीनरविलक्षणं रविकृशानुचन्द्रेक्षणं
स्मरार्दनविचक्षणं परशिवं भजेऽनुक्षणम्।॥ ७६ ।।

चायं चायं दुरितनिचयं सीदतां वक्तयुपायं
पायं पाय शामतकलुष काच्णमम्भोऽनपायम् ।
ध्यायं ध्यायं विषकटुतां भोश्चिरायोरुगायं
गायं गायं विहरत विभु वेणुगोपालनाट्यम् ।॥ ७७ ।।

इदमहमोरुभयोरपि यदस्ति नियतावभासकं भानम्।
तस्यापि साक्षिणी चितदुपाधिविनाकृताप्यस्ति।॥ ७८ ॥

तद्दतैश्वर्यभाजः परमशिव कथंकारमन्यानमत्यन्
याचे देहीति विष्णुद्रहिणहरिमुखान्भिक्षुकान्भिक्षुकोऽहम्।
यत्तावट्टदशाहक्रतुविकृतिशतोक्थ्याङ्गभूतोऽपि चोक्थ्यो
ज्योतिष्टोमोक्तधर्मानभिलषति नतु द्वादशाहोक्थ्यधर्मान्।।॥ ७९ ॥

आलोलोच्यकि सूरिसंप्रतिपनीपन्नांश्वनीकारयन्
शब्दान्संसदि दम्मणीतकितरां यश्चर्करीतानपि ।।