पृष्ठम्:श्रीललितासहस्रनाम.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

XIX

ललितानामसाहस्रमाष्यं भाष्यकृतां समः ।
सौभाग्यभास्कराख्यं स भाग्यलब्धं व्यधात्सुधीः ।। ६२ ।।

सौभाग्यरनाकरभाग्यहेतुं सौभाग्यचन्द्रोदयमागमज्ञः ।
श्रीरामवत्रिधुतपापबन्धं चकार चात्यदुतसेतुबन्धम् ।।॥ ६३ ॥

भास्करकुलजेन पुरा बद्धः सेतुः स्वयं तरितुमब्धिम् ।
भास्कररायेण जगत्तारयितुं भवपयोधिरथमचि ।|| ६४ ।।

वरिवस्यारहस्यं च वरिवस्याप्रकाशकम्।
वरिवस्यापरैरव वरिवस्यमचीकरत्। ।। ६५ ॥

जामदग्न्योपज्ञकोलकल्पसूत्रस्य सूत्रवित्।
रत्रालोकाभिधां वृत्तिं यत्रादेष विना व्यधात् ।। ६६ ।।

मालामन्त्रोद्धारं गुणमणिमालापरिष्कृतोऽव्याख्यत्।
गुप्तवतीं सप्तशतीटीकामपि लुप्तसंशयां विदधे । ६७

सर्वज्ञो विशदां सप्तशतीमन्नविभाजिकाम्।
प्रणिनाय शतश्लोकीं पुण्यश्लोकपदोचितः । ६८ ।।

असंख्याता हि कतयः संख्याता अपि विष्टप ।
संख्यातुं कन शक्यन्ते संख्यावच्चक्रवर्तिन ।| ६९ ।।

इत्येव श्रीमद्रास्कररायप्रणीतानां केषांचिढ़न्थानां निर्देशः ।

तत्सार्वज्ञयोपज्ञकानि प्राज्ञहृद्यानि कानिचित्।
अद्याहमनवद्यानि पद्यानि प्रतिपादये ।।। ७० ।।

श्रीरामं प्रतिपुष्कराभिधमहायक्षेण वेदत्रय
याख्यानावसरे विशिष्य कथित श्रीविष्णुधर्मोत्तरे ।
एतां धनुमुपह्वयामि सुदुघामित्यूग्गतं शङ्का
चार्य शिष्यचतुष्टयेन सहितं वन्दे गुरूणां गुरुम् ।।। ७१ ।।