सामग्री पर जाएँ

पृष्ठम्:श्रीललितासहस्रनाम.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

XIX

ललितानामसाहस्रभाष्यं भाष्यकृतां समः ।
सौभाग्यभास्कराख्यं स भाग्यलब्धं व्यधात्सुधीः ।। ६२ ।।

सौभाग्यरत्नाकरभाग्यहेतुं सौभाग्यचन्द्रोदयमागमज्ञः ।
श्रीरामवन्निर्धुतपापबन्धं चकार चात्यद्भुतसेतुबन्धम् ।। ६३ ॥

भास्करकुलजेन पुरा बद्धः सेतुः स्वयं तरितुमब्धिम् ।
भास्कररायेण जगत्तारयितुं भवपयोधिरयमरचि ।। ६४ ।।

वरिवस्यारहस्यं च वरिवस्याप्रकाशकम्।
वरिवस्यापरैरेव वरिवस्यमचीकरत्। ।। ६५ ॥

जामदग्न्योपज्ञकौलकल्पसूत्रस्य सूत्रवित्।
रत्नालोकाभिधां वृत्तिं यत्नादेष विना व्यधात् ।। ६६ ।।

मालामन्त्रोद्धारं गुणमणिमालापरिष्कृतोऽव्याख्यत्।
गुप्तवतीं सप्तशतीटीकामपि लुप्तसंशयां विदधे । ६७

सर्वज्ञो विशदां सप्तशतीमन्त्रविभाजिकाम्।
प्रणिनाय शतश्लोकीं पुण्यश्लोकपदोचितः । ६८ ।।

असंख्याता हि कृतयः संख्याता अपि विष्टपे ।
संख्यातुं केन शक्यन्ते संख्यावच्चक्रवर्तिनः ।| ६९ ।।

इत्येवं श्रीमद्भास्कररायप्रणीतानां केषांचिद्ग्रन्थानां निर्देशः।

तत्सार्वज्ञ्योपज्ञकानि प्राज्ञहृद्यानि कानिचित्।
अद्याहमनवद्यानि पद्यानि प्रतिपादये ।। ७० ।।

श्रीरामं प्रतिपुष्कराभिधमहायक्षेण वेदत्रय-
व्याख्यानावसरे विशिष्य कथितं श्रीविष्णुधर्मोत्तरे ।
एतां धेनुमुपह्वयामि सुदुघामित्यृग्गतं शङ्करा-
चार्यं शिष्यचतुष्टयेन सहितं वन्दे गुरूणां गुरुम् ।। ७१ ।।