xviii
मधुराम्ल व्यधात्काव्य मधुराम्लरसप्रियः ।
सुभाषितं भास्करा बभाषे मृदुभाषितः ।। ५० ।।
प्रचण्डं दुरितव्रातखण्डने शिवदण्डकम्।
मुक्तकानि च पद्यानि मुक्तावद्यान्ययं जगौ ।।। ५१ ।।
तत्त्वज्ञः स्मृतितत्वाख्यां कृतिं सत्त्वगुणाश्रयः ।
मर्मविद्धर्भशास्त्रस्य कर्मठः सैष निर्ममे ।।। ५२ ।।
सहस्रवाह्मणभुजिविधिखण्डस्य विश्रुत ।
बौधायनप्रणीतस्य बुधो व्याख्यामरीरचत्।।। ५३ ।।
शङ्कचक्राद्यङ्कनस्य स शङ्खलिखितोपम
प्रायश्चित्तं जगादैकादश्या अपि विनिर्णयम् ॥ ५४ ।।
प्रदोषभास्करं चक्रे तृचभास्करमप्यसौ।
कुण्डभास्करसंज्ञां च कृतिं भास्करपण्डितः ।| ५५ ।।
नानाविधैरसौ वृतैनामष्टोत्तरं शतम्।
अष्टमूर्तेरतिस्पष्टं व्याचष्ट स्म विशिष्टधी: ॥५६।।
गणेशनामसाहस्रध्याख्यां विख्यातिमान्गुणै
खद्योतनाम्री निष्पाद्य व्यद्योतिष्ट स भास्करः ॥५७
स्कान्दीयं चन्द्रलाम्बाया चन्द्रोपममखद्युति ।
माहात्म्यं ख्यातमाहातयो व्याचख्यावतिविस्तृतम् ।। ५८ ।।
मत्तप्रतिवदवदनप्रत्तजनानुत्तरत्वमुद्राकः ।
नाथनवरत्रमालामक्षुषां मधुलां जुगुम्मासौ । ५९ ।।
भावनोपनिषद्राष्यं सप्रयोग स भाविक ।
चक्रे श्रीसूक्तभाष्यं च चिरं परिचितः श्रिया ।। ६० ।।
कौलोपनिषद्भाष्यं कुलजैः सेव्यो जनैश्चकारासौ
त्रैपुरमहोपनिवदं त्रैप्रसिद्धान्तविद्विकत्रे सः । ६१ ।।