पृष्ठम्:श्रीललितासहस्रनाम.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

XVII

साध्वी तदअसुदती सह्मसुतातीरभूपरिष्कारे
भास्करपुरेऽग्रहारे बद्धावृति भास्करेश्वरं न्यधित ।।।। ३९ ।।

यदि श्री विद्या भवति यदि सा नैव विनयः
स चेन्नो दातृत्वं तदपि यदि न स्यान्मृदु वचः।
इति स्मायं लोके नियतमसमानाधिकरणो
गुणग्रामः पूर्णो जगति ववृधे भास्करषुषे ।४०

नवस्यन्दिमाध्वीकधारानुकारप्रकारोल्लसत्साहितीसौहितीकः ।
विनिश्चासकल्पं भुवः कल्पशाखी बबन्ध प्रबन्धान्प्रबन्धास नैकात्? ।। ४१ ।।

दान्तेषु वयैर्वेदान्ते नितान्तेडितनैपुणः
अतनोदान्तरध्वान्तखण्डकं चण्डभास्करम्। ४२

लीलामात्रेरितया नीलाचलपूर्वया चपेटिकया।
विमतादृतं प्रहस्तं व्यतनिष्ट विहस्तमब्जनिभहस्तः । ४३

पूर्वमीमांसकाग्रेसरैः श्लाघितः पूर्वमीमांसवोद्दामकक्ष्याकुलम्।
वादकौतूहलं नाम चक्रे कृती वादकौतूहली सूनुनासौ गुरो ।। ४४ ।।

चन्द्रोदयं च भाट्टोपपदं भट्टारकः प्रवीणानाम्।
मध्यायाः कौमुद्या अपि टीकां रसिकरञ्जनीं विदधे ।।॥ ४५ ॥

प्रतिवादिशिरोघट्टकुट्टाकप्रतिभाभरः ।
तार्किकाणां मण्डनं स ततान न्यायमण्डनम्।।|| ४६ ।।

छन्दसि सौत्रं भाष्यं छोटीवृत्तिं प्रवृतिमाधमें
वार्तिकरराजं वृत्तोपपदं चन्द्रोदयं च चक्रेऽसौ।|| ४७ ॥

वस्तुमह धुरि सतां वस्तुतः पिङ्गलापर ।
स स्तुतं प्राणयच्छन्दः कौस्तुभं विबुधोत्तमैः ।|| ४८ ॥

विद्वन्मनोनन्दनचन्द्रशालां तद्वत्प्रणिन्ये खलु चन्त्रशालाम् ।
प्रधीः कटेरीमपि लोभनीयपदार्थपूर्णामिह लब्धवर्ण । ।। ४९ ।।